Skip to main content
Search
Full Chapter
SP • Chapter 8: Prakāśa 8: सापेक्षशब्दशब्दशक्तिप्रकाशः

SP 8.6

Canonical Ref: SP 8.6
Sanskrit (Devanāgarī)
सा च सन्निहिते योग्ये च भवति। तद्यथा 'देवो वर्षती' —ति वर्षणक्रियाकर्तारमन्तरेणाभवन्ती सन्निहितं योग्यं च देवमपेक्षते। यत्र तु सन्निहितस्य न योग्यता, तत्र व्यवहितमपि योग्यमेवापेक्षते, यथा प्रविश पिण्डीम् इत्यत्र (न) प्रवेशनक्रिया सन्निहितायामप्ययोग्यायां पिण्ड्यामसम्भवन्ती व्यवहितमपि योग्यं गृहादिकमपेक्षते। पिण्डीमित्येतदपि कर्मपदं प्रविशेत्यस्मिन्नसम्भवद्‌योग्यमेव भक्षयेत्यादिक्रियापदमपेक्षत इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 8.6. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 8.5) All Verses in Chapter 8 Next Verse (SP 8.7) →