Skip to main content
Search
Ch. 3 SP 3.450
Full Chapter
SP • Chapter 3: Prakāśa 3: प्रकृत्यादिशब्दप्रकाशः

SP 3.450

Canonical Ref: SP 3.450
Sanskrit (Devanāgarī)
नन्वस्त्यादयोऽपि निपाताः, ते चाख्यातस्वरूपत्वात् कारकाणि विशिंषन्तः कालं पुरुषं संख्यां न व्यभिचरिष्यन्ति; यत्र व्यभिचारस्तत्र कथम् ? तथा हि— भवति पक्ष्यति भवत्यपाक्षीदयूयुजस्त्वमसीति कालव्यभिचारः; भवतु गच्छाम्यहमिति पुरुषव्यभिचारः; भवतु तयैव मण्डूकाः पच्यन्तामिति संख्याव्यभिचारः; भवतु नाम द्रक्ष्यसीति कालपुरुषव्यभिचारः; भवतु तयैव मण्डूकाः पच्यन्तामिति संख्याव्यभिचारः; भवतु नाम द्रक्ष्यसीति कालपुरुषव्यभिचारः; भवतु भविष्यन्ति जीवतो धनानीति कालसंख्याव्यभिचारः; अस्त्यगमाम घोषादिति कालपुरुषसंख्याव्यभिचारः। लोके चैवंभूता वाचोयुक्तिरस्ति, प्रयुङ्क्ते हि लोकः, अस्ति गच्छामो वयमित्येवमादिः, तत्रास्तीत्येकवचनमुपलभ्यते। तेन मन्यामहे गमेरेवैकत्वाश्रयस्य कर्तृत्वं, न वयमिति बहुत्वाश्रयस्य। तदेवं सामान्यक्रियया विशेषक्रियाणां कर्तृत्वेनाभिसंबन्धात् अस्त्यनयोस्साध्यसाधनभावः। विशेषक्रियायामपि क्‍वचित्कत्वेन संबन्धो दृश्‍यते— पश्‍य धावति, पश्‍याम उदाह्रियन्ते, मन्ये यास्यसि, स्मरसि वत्स्यामः, न मर्षयामि याजयिष्यति, आशंसे युक्तोऽधीयेति। करणादिभावश्‍च तिङन्तानां च विद्यते, पचति पठतीति। अत्र तु विद्यत एव संबन्धः, सर्वनाम्‍ना परामर्शात्। न चेह वाक्‍यभेदः, सर्वथैव तदनुपलब्धेः। तत्र हि खलु वाक्‍यभेद उपेयते। त त्रासौ परामृश्‍यमानोऽन्यां बुद्धिल्लिखति। न चेहोल्लेखवान् वाक्‍यभेदो बुद्धावुपलभ्यते; तस्मादेकवाक्‍यत्वमेव। अत एवाभिजानासि देवदत्त यत् कश्‍मीरेषु वत्स्यामः, तत्रौदनं भोक्ष्यामहे इति 'विभाषा साकाङ्क्षे' (३.२.११४) इति सर्वनाम्‍ना परामर्शात्साकाङ्क्षत्वोपपत्तेः। तत्रेत्यनेनासंधीयमानत्वाल्लटो लङश्‍च विकल्पः प्रवर्तते। स स्वपित्येष बुध्यते, सोऽस्तमयतेऽयमुदेतीत्यत्र तु परस्परं वा आख्यातयोर्लक्ष्यलक्षणभावः, सह वा सर्वैरेव कालविशेषादिकं लक्ष्यत इत्येकपरत्वादेकवाक्‍यतैव। यथा—
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 3.450. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 3.449) All Verses in Chapter 3 Next Verse (SP 3.451) →