Skip to main content
Search
Ch. 3 SP 3.449
Full Chapter
SP • Chapter 3: Prakāśa 3: प्रकृत्यादिशब्दप्रकाशः

SP 3.449

Canonical Ref: SP 3.449
Sanskrit (Devanāgarī)
न हि भवति पचति पठतीति। अत्राऽयं समाधिः—यथाभूता क्रियोपन्यस्ता तथाभूता समवायं न गच्छति, विशेषयोस्समवायो, नास्ति, सामान्ययोरस्त्येव। अस्ति स मे रोचते, असि त्वमीशिषे, नास्मि रमे, भवति, पचति करोतीति। तत्रैतच्छक्‍यते वक्तुं यत्रान्या च क्रिया भवति; यत्र तु खलु सैव सा क्रिया तत्र कथम् ? यथा भवेदपि भवेत्, स्यादपि स्यादिति। अस्ति च लोके एवंभूतः प्रयोगः। अपि भवेदेतद्देवदत्तस्यापि, स दिवसः स्याद्यत्रेदं भवेदिति। देवदत्तस्य च वर्तमानकालां सत्तामविनाशं प्रार्थयमान एतत्प्रयुङक्ते; अपि भवेदेतत्, भवेद्देवदत्त इति। अत्राप्यन्यत्वमस्ति; कुतः, साधनभेदात्कालभेदाच्च। एकस्यात्र भवतेर्भवति साधनं सर्वकालश्‍च प्रत्ययः। अपि भवेदित्यत्र यो भवति तत्र देवदत्तसत्ता न प्रकृत्यर्थः; किं तर्हि ? प्रत्ययार्थः; प्रार्थनेव लिङिति सर्वकालत्वं कालविशेषस्यानाश्रितत्वात्। 'अपरस्य बाह्यं साधनं वर्तमानकालश्‍च प्रत्ययो भवति। तस्य बाह्यं साधनं द्रव्यं देवदत्त इत्यर्थः, देवदत्तसत्ता तु प्रकृत्यर्थः, वर्तमानसत्ता तु देवदत्तस्. प्रार्थ्यत इत्यनुपात्तकालविशेषः। शास्‍त्रे लिङ् स्वरूपादेव वर्तमानकालेऽवतिष्ठते, यथा तव्यादयो भविष्यति, कर्त्तव्यः कट इति। स्वभावाच्‍चार्थानां व्यवस्थेपि भाष्ये कालाधिकारः प्रत्याख्यातः। एवं स्यादपि स्यादित्यत्रापि स्वाभाविकं नानात्वं साधनकालभेदेन प्रतिपाद्यत इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 3.449. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 3.448) All Verses in Chapter 3 Next Verse (SP 3.450) →