Skip to main content
Search
Ch. 3 SP 3.403
Full Chapter
SP • Chapter 3: Prakāśa 3: प्रकृत्यादिशब्दप्रकाशः

SP 3.403

Canonical Ref: SP 3.403
Sanskrit (Devanāgarī)
समानवाक्‍यार्थात् पदादुत्तरयोस्तिङामन्त्रितयोर्निघातस्स्मर्यते। युष्मदस्मदोः वांनावादय (८.१. २०) आदेशा विधीयन्ते। 'वाक्यस्य टेः प्लुत उदात्तः' (८.२.८२) इति वाक्‍याचामन्त्यस्य प्लुतश्शिष्यते इति। तच्‍च तदोपपद्यते यदैकतिङ्वाक्‍यमिति पारिभाषिकं वाक्‍यलक्षणं क्रियते। अन्यथा 'समर्थः पदविधिः' (२.१.१) इति पदानां परस्परासामर्थ्ये वाक्‍यस्य चापरिसमाप्तौ सर्वथा न प्राप्‍नोति। तथा हि 'नद्यास्तिष्ठन्ति कूले, वृक्षस्य लम्बते शाखायां, कः प्रिये मयि कोपः ? का सुभग प्रिया ते ?शालीनां ते ओदनं दास्यामीति मे माता ब्रवीति, आगच्छ भो देवदत्त कुग्रामं गच्छावः, ग्रामं यदि यासि रे मामपि प्रतीक्षस्व।' अत्र तिष्ठतिना कूलमभिसंबन्धात्, नदीः लम्बनेन शाखा, न वृक्षः; क इत्यनेन कोपो, न प्रिया; केत्यनेन तु प्रिया, न सुभगः; ते इति युष्मदर्थेन ओदनं, न शालयः; मे इत्यस्मदर्थेन माता, न वचनम्; आगच्छ देवदत्त, ग्रामं यदि यासि रे, इत्येतावति वाक्‍ययोरपरिसमाप्‍तिः, किं तर्हि ? गच्छावो, मामपि प्रतीक्षस्वेति। ततश्‍च निघातादिकार्याणामप्राप्‍तिः। एकतिङ्परस्य तु पदसमुदायस्य वाक्‍यत्वे परम्परया यथाकथञ्चिदभिसंबन्धे निघातयुष्मदस्मदादेशा युज्यन्ते। 'युक्तयुक्ते चोपसङ्ख्यानम्' इति युक्तेन वक्तव्यं भवति। एवं साकाङ्क्षस्यापि पदकदम्बकस्य एकतिङवच्छेदेन वाक्‍यत्वप्रतीतौ 'वाक्‍यस्य टेः प्‍लुत' इति वाक्‍याचामन्त्यस्योदात्तः प्‍लुत इति सिद्धो भवति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 3.403. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 3.402) All Verses in Chapter 3 Next Verse (SP 3.404) →