Skip to main content
Search
Ch. 11 SP 11.811
Full Chapter
SP • Chapter 11: Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

SP 11.811

Canonical Ref: SP 11.811
Sanskrit (Devanāgarī)
तत्रेष्टार्थव्यवच्छिन्ना पदपङ्‌क्तिर्वाक्यपद्धतिः प्रकरणावली वा प्रबन्धः। यतः पदानां सुबन्तानां तिङन्तानां च सर्वार्थसाधारणत्वान्न स्वरूपनिबन्धनो विशेषः प्रतीयते। नापि वाक्यानां, सर्वव्यवहारसाधारणत्वात् परस्परावच्छेदहेतुः भेदः संभवति। न च प्रकरणानां शैलर्तुनगरार्णववर्णनादिरूपाणां सकलकाव्यशरीराङ्गत्वे तद्गतो व्यतिरेक उपपद्यते। अतो य एव तैः उपक्रियमाणो महावाक्यार्थः प्रतिनियतरूपः स परमनेकवाक्यप्रकरणादिसमुदायरूपस्य महाकाव्यादेरवच्छेदहेतुः, तेन व्यवच्छिन्ना विशेषेऽवस्थापिता पदपङ्क्तिर्वाक्यपद्धतिः प्रकरणावली वा प्रबन्धः। यथा जानकीहरणं, कुमारसम्भव इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 11.811. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 11.810) All Verses in Chapter 11 Next Verse (SP 11.812) →