Skip to main content
Search
Ch. 11 SP 11.289
Full Chapter
SP • Chapter 11: Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

SP 11.289

Canonical Ref: SP 11.289
Sanskrit (Devanāgarī)
अत्र शाखिनां प्रवालपुष्पफलशाखासम्पत्तिर्निजं रूपं; नन्दनशाखिनां पुनः प्रवालादिस्थानेषु अंशुकहारमणिमन्दिराणि, तदेतदाश्चर्यमेतेषामतश्चैतेभ्य आलम्बन— विभावेभ्यः कस्यचिद् देवभूमिगतस्योत्पन्ने विस्मयस्थायिभावे तदीयावयवदर्शना— दिभिरुद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु हर्षरोमोद्गमस्वेदगद्गदादिषु व्यभिचारिषु परप्रकर्षाधिगमादद्‍भुतरसत्वमापन्ने स्थायिनि यदेतदंशुकानि प्रावालानीत्यादिवचनं तदद्‍भुतरसादुपजायमानं रसवदुच्यते।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 11.289. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 11.288) All Verses in Chapter 11 Next Verse (SP 11.290) →