Skip to main content
Search
Ch. 11 SP 11.272
Full Chapter
SP • Chapter 11: Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

SP 11.272

Canonical Ref: SP 11.272
Sanskrit (Devanāgarī)
संस्कारप्रबोधहेतवः पुनरुद्दीपनविभावाः ऋतुमाल्यविलेपनादयः। तैः प्रतिबुद्धसंस्कारस्य स्मरणेच्छाद्वेषप्रयत्‍नाः तेभ्यो मनोवाग्‌‍बुद्धिशरीरारम्भाः तेऽनुभूयमानत्वादनुभावाः। तैरयमभिप्रवर्धमान ईप्सितमर्थमासादयन् जिहासितं जिहानः सुखात्मकैर्व्यभिचारिभिः हर्षधृतिस्मृतिमतिप्रभृतिभिः संसृज्यमानः समासादितोत्तरोत्तर— रत्यादिस्थायिभावः शृङ्गारप्रभव एव सम्भोगशृङ्गारादिरसरूपतामधिगच्छति। स एव त्वीप्सितानवाप्‍तौ जिहासितस्य अहानात्, दुःखात्मकैर्व्यभिचारिभिश्चिन्तौत्सुक्या— वेगनिर्वेदादिभिः संसृज्यमानो दुःखात्मकविप्रलम्भशृङ्गारादिरसरूपतामध्यास्ते। तत्र—
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 11.272. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 11.271) All Verses in Chapter 11 Next Verse (SP 11.273) →