Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 8 (Maṇḍala 8) • Sūkta 10

Maṇḍala 8 Sūkta 10

मण्डलम् 8 • सूक्तम् 10

Maṇḍala 8 Sūkta 10 of the Ṛgveda Saṁhitā with 7 mantras.

Total: 7 Verses • Citations: RV 8.10.1–7 • 3 Lexicon Terms
६ प्रगाथो ( घौर: ) काण्व: । अश्विनौ ।१ बृहती , २ मध्येज्योति:, ३ अनुष्टुप् ( पिंगलमतेन – शंकुमती ), ४ आस्तारपंक्ति:, ५-६ प्रगाथ: = ( ५ बृहती ,६ सतोबृहती ) ।
यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः । यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥१
यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् । बृह॒स्पतिं॒ विश्वा॑न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥२
त्या न्व१श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता । ययो॒रस्ति॒ प्र ण॑: स॒ख्यं दे॒वेष्वध्याप्य॑म् ॥३
ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे सन्ति॑ सू॒रय॑: । ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥४
यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू । यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तम् ॥५
यद॒न्तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ । यद्वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या॑तमश्विना ॥६
← Previous (Ch. 629) Full Table of Contents Next (Ch. 631) →