Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 7 (Maṇḍala 7) • Sūkta 48

Maṇḍala 7 Sūkta 48

मण्डलम् 7 • सूक्तम् 48

Maṇḍala 7 Sūkta 48 of the Ṛgveda Saṁhitā with 4 mantras.

Total: 4 Verses • Citations: RV 7.48.1–4 • 3 Lexicon Terms
४ मैत्रावरुणिर्वसिष्ठ:। ऋभव:, ४ विश्वे देवा वा । त्रिष्टुप् ।

ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ ।

आ वो॒ऽर्वाच॒: क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं॑ वर्तयन्तु
ऋ॒भुॠ॒भुभि॑र॒भि व॑: स्याम॒ विभ्वो॑ वि॒भुभि॒: शव॑सा॒ शवां॑सि ।

वाजो॑ अ॒स्माँ अ॑वतु॒ वाज॑साता॒विन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम्
ते चि॒द्धि पू॒र्वीर॒भि सन्ति॑ शा॒सा विश्वाँ॑ अ॒र्य उ॑प॒रता॑ति वन्वन् । इ

न्द्रो॒ विभ्वाँ॑ ऋभु॒क्षा वाजो॑ अ॒र्यः शत्रो॑र्मिथ॒त्या कृ॑णव॒न्वि नृ॒म्णम्
नू दे॑वासो॒ वरि॑वः कर्तना नो भू॒त नो॒ विश्वेऽव॑से स॒जोषा॑: ।

सम॒स्मे इषं॒ वस॑वो ददीरन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः
← Previous (Ch. 563) Full Table of Contents Next (Ch. 565) →