Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 7 (Maṇḍala 7) • Sūkta 29

Maṇḍala 7 Sūkta 29

मण्डलम् 7 • सूक्तम् 29

Maṇḍala 7 Sūkta 29 of the Ṛgveda Saṁhitā with 5 mantras.

Total: 5 Verses • Citations: RV 7.29.1–5 • 3 Lexicon Terms
५ मैत्रावरुणिर्वसिष्ठ:। इन्द्र: । त्रिष्टुप् ।

अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्व॒ आ तु प्र या॑हि हरिव॒स्तदो॑काः ।

पिबा॒ त्व१स्य सुषु॑तस्य॒ चारो॒र्ददो॑ म॒घानि॑ मघवन्निया॒नः
ब्रह्म॑न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो॑ऽर्वाची॒नो हरि॑भिर्याहि॒ तूय॑म् ।

अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा॑णि शृणव इ॒मा न॑:
का ते॑ अ॒स्त्यरं॑कृतिः सू॒क्तैः क॒दा नू॒नं ते॑ मघवन्दाशेम ।

विश्वा॑ म॒तीरा त॑तने त्वा॒याऽधा॑ म इन्द्र शृणवो॒ हवे॒मा
उ॒तो घा॒ ते पु॑रु॒ष्या॒३ इदा॑स॒न्येषां॒ पूर्वे॑षा॒मशृ॑णो॒ॠषी॑णाम् ।

अधा॒हं त्वा॑ मघवञ्जोहवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑
वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।

यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः
← Previous (Ch. 544) Full Table of Contents Next (Ch. 546) →