Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 1 (Maṇḍala 1) • Sūkta 44

Maṇḍala 1 Sūkta 44

मण्डलम् 1 • सूक्तम् 44

Maṇḍala 1 Sūkta 44 of the Ṛgveda Saṁhitā with 14 mantras.

Total: 14 Verses • Citations: RV 1.44.1–14 • 3 Lexicon Terms
१४ प्रस्कण्वः काण्वः। अग्निः, १-२ अग्निः, अश्विनौ, उषाश्च। प्रगाथः – विषमा बृहत्यः, समाः सतोबृहत्यः।

अग्ने॒ विव॑स्वदु॒षस॑श् चि॒त्रं राधो॑ अमर्त्य ।

आ दा॒शुषे॑ जातवेदो वहा॒ त्वम॒द्या दे॒वाँ उ॑ष॒र्बुध॑:
जुष्टो॒ हि दू॒तो असि॑ हव्य॒वाह॒नो ऽग्ने॑ र॒थीर॑ध्व॒राणा॑म् ।

स॒जूर॒श्विभ्या॑मु॒षसा॑ सु॒वीर्य॑म॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत्
अ॒द्या दू॒तं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यम् ।

धू॒मके॑तुं॒ भाऋ॑जीकं॒ व्यु॑ष्टिषु य॒ज्ञाना॑मध्वर॒श्रिय॑म्
श्रेष्ठं॒ यवि॑ष्ठ॒मति॑थिं॒ स्वा॑हुतं॒ जुष्टं॒ जना॑य दा॒शुषे॑ ।

दे॒वाँ अच्छा॒ यात॑वे जा॒तवे॑दसम॒ग्निमी॑ळे॒ व्यु॑ष्टिषु
स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व॑स्यामृत भोजन ।

अग्ने॑ त्रा॒तार॑म॒मृतं॑ मियेध्य॒ यजि॑ष्ठं हव्यवाहन
सु॒शंसो॑ बोधि गृण॒ते य॑विष्ठ्य॒ मधु॑जिह्व॒: स्वा॑हुतः ।

प्रस्क॑ण्वस्य प्रति॒रन्नायु॑र्जी॒वसे॑ नम॒स्या दैव्यं॒ जन॑म्
होता॑रं वि॒श्ववे॑दसं॒ सं हि त्वा॒ विश॑ इ॒न्धते॑ ।

स आ व॑ह पुरुहूत॒ प्रचे॑त॒सो ऽग्ने॑ दे॒वाँ इ॒ह द्र॒वत्
स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षप॑: ।

कण्वा॑सस्त्वा सु॒तसो॑मास इन्धते हव्य॒वाहं॑ स्वध्वर
पति॒र्ह्य॑ध्व॒राणा॒मग्ने॑ दू॒तो वि॒शामसि॑ ।

उ॒ष॒र्बुध॒ आ व॑ह॒ सोम॑पीतये दे॒वाँ अ॒द्य स्व॒र्दृश॑:
अग्ने॒ पूर्वा॒ अनू॒षसो॑ विभावसो दी॒देथ॑ वि॒श्वद॑र्शतः ।

असि॒ ग्रामे॑ष्ववि॒ता पु॒रोहि॒तो ऽसि॑ य॒ज्ञेषु॒ मानु॑षः
नि त्वा॑ य॒ज्ञस्य॒ साध॑न॒मग्ने॒ होता॑रमृ॒त्विज॑म् ।

म॒नु॒ष्वद् दे॑व धीमहि॒ प्रचे॑तसं जी॒रं दू॒तमम॑र्त्यम्
यद् दे॒वानां॑ मित्रमहः पु॒रोहि॒तो ऽन्त॑रो॒ यासि॑ दू॒त्य॑म् ।

सिन्धो॑रिव॒ प्रस्व॑नितास ऊ॒र्मयो॒ ऽग्नेर्भ्रा॑जन्ते अ॒र्चय॑:
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः ।

आ सी॑दन्तु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रम्
शृ॒ण्वन्तु॒ स्तोमं॑ म॒रुत॑: सु॒दान॑वो ऽग्निजि॒ह्वा ऋ॑ता॒वृध॑: ।

पिब॑तु॒ सोमं॒ वरु॑णो धृ॒तव्र॑तो॒ ऽश्विभ्या॑मु॒षसा॑ स॒जूः
← Previous (Ch. 43) Full Table of Contents Next (Ch. 45) →