Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 5 (Maṇḍala 5) • Sūkta 5

Maṇḍala 5 Sūkta 5

मण्डलम् 5 • सूक्तम् 5

Maṇḍala 5 Sūkta 5 of the Ṛgveda Saṁhitā with 11 mantras.

Total: 11 Verses • Citations: RV 5.5.1–11 • 3 Lexicon Terms
११ वसुश्रुत आत्रेयः। आप्रीसूक्तं- (१ इध्मः समिद्धोऽग्निर्वा, २ नराशंसः, ३ इळः, ४ बर्हिः, ५ देवीर्द्वारः, ६ उषासाक्ता, ७दैव्यो होतारौ प्रचेतसौ, ८ तिस्रो देव्यः सरस्वतीळाभारत्यः, ९त्वष्टा, १० वनस्पतिः, ११ स्वाहाकृतयः )।गायत्री।

सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन । अ॒ग्नये॑ जा॒तवे॑दसे
नरा॒शंस॑: सुषूदती॒मं य॒ज्ञमदा॑भ्यः । क॒विर्हि मधु॑हस्त्यः
ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं॑ चि॒त्रमि॒ह प्रि॒यम् । सु॒खै रथे॑भिरू॒तये॑
ऊर्ण॑म्रदा॒ वि प्र॑थस्वा॒भ्य१र्का अ॑नूषत । भवा॑ नः शुभ्र सा॒तये॑
देवी॑र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये॑ । प्रप्र॑ य॒ज्ञं पृ॑णीतन
सु॒प्रती॑के वयो॒वृधा॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ । दो॒षामु॒षास॑मीमहे
वात॑स्य॒ पत्म॑न्नीळि॒ता दैव्या॒ होता॑रा॒ मनु॑षः । इ॒मं नो॑ य॒ज्ञमा ग॑तम्
इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुव॑: । ब॒र्हिः सी॑दन्त्व॒स्रिध॑:
शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना॑ । य॒ज्ञेय॑ज्ञे न॒ उद॑व
यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा॑नि । तत्र॑ ह॒व्यानि॑ गामय
स्वाहा॒ग्नये॒ वरु॑णाय॒ स्वाहेन्द्रा॑य म॒रुद्भ्य॑: । स्वाहा॑ दे॒वेभ्यो॑ ह॒विः
← Previous (Ch. 358) Full Table of Contents Next (Ch. 360) →