Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 1 (Maṇḍala 1) • Sūkta 14

Maṇḍala 1 Sūkta 14

मण्डलम् 1 • सूक्तम् 14

Maṇḍala 1 Sūkta 14 of the Ṛgveda Saṁhitā with 12 mantras.

Total: 12 Verses • Citations: RV 1.14.1–12 • 3 Lexicon Terms
१२ मेधातिथिः काण्वः। विश्वे देवाः (विश्वैर्देवैः सहितोऽग्निः), ३ इन्द्रवायुबृहस्पतिमित्राग्निपूषभगादित्यमरुद्गणाः, १० विश्वदेवाग्नीन्द्रवायुमित्रधामानि, ११ अग्निः। गायत्री।

ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे॑भि॒: सोम॑पीतये । दे॒वेभि॑र्याहि॒ यक्षि॑ च
आ त्वा॒ कण्वा॑ अहूषत गृ॒णन्ति॑ विप्र ते॒ धिय॑: । दे॒वेभि॑रग्न॒ आ ग॑हि
इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भग॑म् । आ॒दि॒त्यान् मारु॑तं ग॒णम्
प्र वो॑ भ्रियन्त॒ इन्द॑वो मत्स॒रा मा॑दयि॒ष्णव॑: । द्र॒प्सा मध्व॑श्चमू॒षद॑:
ईळ॑ते॒ त्वाम॑व॒स्यव॒: कण्वा॑सो वृ॒क्तब॑र्हिषः । ह॒विष्म॑न्तो अरं॒कृत॑:
घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह॑न्ति॒ वह्न॑यः । आ दे॒वान्त्सोम॑पीतये
तान् यज॑त्राँ ऋता॒वृधो ऽग्ने॒ पत्नी॑वतस्कृधि । मध्व॑: सुजिह्व पायय
ये यज॑त्रा॒ य ईड्या॒स् ते ते॑ पिबन्तु जि॒ह्वया॑ । मधो॑रग्ने॒ वष॑ट्कृति
आकीं॒ सूर्य॑स्य रोच॒नाद् विश्वा॑न्दे॒वाँ उ॑ष॒र्बुध॑: । विप्रो॒ होते॒ह व॑क्षति
विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ । पिबा॑ मि॒त्रस्य॒ धाम॑भिः
त्वं होता॒ मनु॑र्हि॒तो ऽग्ने॑ य॒ज्ञेषु॑ सीदसि । सेमं नो॑ अध्व॒रं य॑ज
यु॒क्ष्वा ह्यरु॑षी॒ रथे॑ ह॒रितो॑ देव रो॒हित॑: । ताभि॑र्दे॒वाँ इ॒हा व॑ह
← Previous (Ch. 13) Full Table of Contents Next (Ch. 15) →