Skip to main content
Search
RV
Raghuvaṁśam • Chapter 09

Canto 9

नवमः सर्गः (मृगयावर्णनम्)

Canto 9 of Raghuvaṁśam.

Total: 82 Verses • Citations: RV 9.1–82 • 1 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
RV 9.31 द्रुतविलम्बितम्
उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके । प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उपहितमिति॥ शिशिरापगमश्रिया वसन्तलक्ष्म्या किंशुके पलाशवृक्षे। `पलाशः किंशुकः पर्णः` इत्यमरः। उपहितं दत्तं मुकुलजालं कुड्यलसंहतिः। मदेन यापितलज्जयाऽपसारितत्रपया प्रमदया प्रणयिनी प्रियतम उपहितं नखक्षतमेव मण्डनं तदिव॥ अशोभत॥
RV 9.32 द्रुतविलम्बितम्
व्रणगुरुप्रमदाधरदुःसहं जघननिर्विशषयीकृतमेखलम् । न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्हिमम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): व्रणेति॥ व्रणैर्दन्तक्षतैर्गुरुभिर्दुर्धरैः प्रमदानामधरैरधरोष्ठैर्दुःसहं हिमस्य व्यथाकरत्वादसह्यम्। जघनेषु निर्विषयीकृता निरवकाशीकृता मेखला येन तत्। शैत्यात्त्याजितमेखलमित्यर्थः। एवंभूतं हिमं रविस्तावदा वसन्तादशेषं निशेषं यथा तथाऽपोहितुं निरसितुं नालं खलु न शक्तो हि। किंतु विरलं कृतवांस्तनूचकार ॥
RV 9.33 द्रुतविलम्बितम्
अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा । अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अभिनयानिति॥ अत्र चूतलताया नर्तकीसमाधिरभिधीयते। अभिनयानर्थव्यञ्जकान्व्यापारान्। `व्यञ्जकाभिनयौ समौ` इत्यमरः (अ.को.1|7|17)। परिचेतुमभ्यसितुमुद्यतेव स्थिता। कुतः? मलयमारुतेन कम्पितपल्लवा। `पल्लव`शब्देन हस्तो गम्यते। सकलिका सकोरका। `कलिका कोरकः पुमान्` इत्यमरः (अ.को.2|4|16)। सहकारलता। कलिः कलहो द्वेष उच्यते। `कलिः स्यात्कलहे शूरे कलिरन्त्ययुगे युधि`इति विश्वः। कामो रागः। तज्जितामपि। जितरागद्वेषाणामपीत्यर्थः। मनोऽमदयत् ॥
RV 9.34 द्रुतविलम्बितम्
प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः । सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रथममिति॥ सुरभिर्गन्धो यासां तासु सुरभिगन्धिषु। `गन्धस्य-` (पा.5।4।135) इत्यादिनेकारः। कुसुमान्यासां संजातानि कुसुमिताः। तासु वनराजिषु वनपङ्क्तिषु। अन्यभृताभिः कोकिलाभिः प्रथमं प्रारम्भेषूदीरिता उक्ता अत एव मिताः परिमिता गिर आलापाः। प्रविरला मौग्ध्यात्स्तोकोक्ता मुग्धवधूनां कथा वाच इव। शुश्रुविरे श्रुताः ॥
RV 9.35 द्रुतविलम्बितम्
श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः । उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): श्रुतीति॥ श्रुतिसुखाः कर्णमधुरा भ्रमरस्वना एव गीतयो यासां ताः। कुसुमान्येव कोमला दन्तरुचो दन्तकान्तयो यासां ताः। अनेन सस्मितत्वं विवक्षितम्। उपवनान्तलताः पवनेनाहतैः कम्पितैः किसलयैः सलयैः साभिनयैः। `लय` शब्देन लयानुगतोऽभिनयो लक्ष्यते। उपवनान्ते पवनाहतैरिति सक्रियत्वाभिधानात्। पाणिभिरिव बभुः। अनेन तलानां नर्तकीसाम्यं गम्यते ॥
RV 9.36 द्रुतविलम्बितम्
ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् । पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ललितेति॥ अङ्गना ललितविभ्रमबन्धविचक्षणं मधुरविलासघटनापटुतरम्। सुरभिणा मनोहरेण गन्धेन पराजितकेसरं निर्जितबकुलपुष्पम्। `अथ केसरे। बकुलः` इत्यमरः। स्मरस्य सखायं स्मरसखम्। स्मरोद्दीपकमित्यर्थः। मधुं मद्यम्। `अर्धर्चाः पुंसि च` (पा.2।4।31) इति पुंसिङ्गता। उक्तं च-`मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः। अर्धर्चादिगणे पाठान्पुंसकयोर्मधुः॥` इति। पतिषु विषये रसखण्डनवर्जितमनुरागभङ्गरहितं यथा तथा निर्विविशुः। परस्परानुरागपूर्वकं पतिभिः सह पपुरित्यर्थः ॥
RV 9.37 द्रुतविलम्बितम्
शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः । विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शुशुभिर इति॥ विकचतामरसा विकसितकमलाः। मदेन कला अव्यक्तमधुरं ध्वनन्त उदकलोलविहंगमा जलप्रियपक्षिणो हंसादयो यासु ता मदकलोदकलोलविहंगमा गृहेषु दीर्घिका वाप्यः। स्मितेन चारुतराण्याननानि यासां ताः श्लथाः शिञ्जिता मुखरा मेखला यासां ताः। शिञ्जितेति कर्तरि क्तः। स्त्रिय इव शुशुभिरे ॥
RV 9.38 द्रुतविलम्बितम्
उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः । सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उपययाविति॥ मधुना मधुसमयेन खण्डिता ह्रासं गमिता। क्षीयन्ते खलूत्तरायणे रात्रयः; खण्डिताख्या च नायिका ध्वन्यते। हिमकरोदयेन चन्द्रोदयेन पाण्डुर्मुखस्य प्रदोषस्य वक्रस्य च छविर्यस्याः सा रजन्येव वधूः। इष्टसमागमनिर्वृत्तिं प्रियसंगमसुखम्। अनितयाऽप्राप्तया। `इण् गतौ` इति धातोः समागमनिर्वृतिं प्रियसंगमसुखम्। अनितयाऽप्राप्तया। `इण् गतौ` इति धातोः कर्तरि क्तः। वनितया सदृशं तुल्यं तनुतां न्यूनतां कार्श्यं चोपययौ ॥
RV 9.39 द्रुतविलम्बितम्
अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः । कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अपेति॥ हिमकरश्चन्द्रः। अपतुषारतयाऽपगतनीहारतया विशदप्रभैर्निर्मलकान्तिभिः सुरतसङ्गपरिश्रमनोदिभिः सुरतसङ्गखेदहारिभिरंशुभिः किरणैः। मकरोर्जितकेतनम्। मकरेणोर्जितं केतनं ध्वजो यस्य तम्। लब्धावकाशत्वादुच्छ्रितध्वजमित्यर्थः। कुसुमचापं काममतेजयदशातयत्। `तिज निशाने` इति धातोर्ण्यन्ताल्लङ्। सहकारिलाभात्कामोऽपि तीक्ष्णोऽभूदित्यर्थः ॥
RV 9.40 द्रुतविलम्बितम्
हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कणकाभरणस्य यत् । युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हुतेति॥ हुतहुताशनदीप्त्याऽऽज्यादिप्रज्वलिताग्निप्रभं यत्कुसुमम्। कर्णिकारमित्यर्थः। वनश्रिय उपवनलक्ष्म्याः कनकाभरणस्य प्रतिनिधिः। अभूदिति शेषः। दसेषु केसरेषु च पेशलम्, सुकुमारपत्रकिञ्जल्कमित्यर्थः। आहितम्। प्रियैरिति शेषः। तत्कुसुमं युवतयोऽलके कुन्तले दधुः ॥
RV 9.41 द्रुतविलम्बितम्
अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः । न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अलिभिरिति॥ अञ्जनबिन्दुमनोहरैः कज्जलकणसुन्दरैः कुसुमपङ्क्तिषु निपतन्ति ये तैः। अलिभिरङ्कितश्चह्नितस्तिलकः श्रीमान्नाम वृक्षः। `तिलकः क्षुरकः श्रीमान्` इत्यमरः (अ.को.2|4|40)। वनस्थलीम्। तिलको विशेषकः। `तमालपत्रतिलकचित्रकाणि विशेषकम्। द्वितीयं च तुरीयं च न स्त्रियम्` इत्यमरः (अ.को.2|4|40)। प्रमदामिव। न शोभयति स्मेति न खलु। अपि त्वशोभयदेवेत्यर्थः। `लट् स्मे` (पा.3।2।118) इति `स्म`शब्दयोगाद्भूतार्थे लट् ॥
RV 9.42 द्रुतविलम्बितम्
अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मनः । कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अमदयदिति॥ तरुचारुविलासिनी तरोः पुंसश्च चारुविलासिनी नवमल्लिका सप्तलाखअया लता। `सप्तला नवमल्लिका` इत्यमरः। मधुनो मकरन्दस्य मद्यस्य च गन्धेन सनाथया। गन्धप्रधानयेत्यर्थः। किसलयमेवाधरस्तत्र संगतया। प्रसृतरागयेत्यर्तः। कुसुमैः संभृतया संपादितया। कुसुमरूपयेत्यर्थः। स्मितरुचा हासकान्त्या मनः। पश्यतामिति शेषः। अमदयत् ॥
RV 9.43 द्रुतविलम्बितम्
अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः । परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अरुणेति॥ विलासिनो विलसनशीलाः पुरुषाः। `वौ कषलस-` (पा.3।2।143) इत्यादिना घिनुण्प्रत्ययः। अरुणस्यानूरो रागमारुण्यं निषेधन्ति तिरस्कुर्वन्तीत्यरुणरागनिषेधिनः। तैः। कुसुम्भादिरञ्जनात्तत्सदृशैरित्यर्थथः। `तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति। तस्येवानुकरोतीति शब्दाः सादृश्यवाचकाः॥` इति दण्डी। अंशुकैरम्बरैः। श्रवणेषु कर्णेषु लब्धपदैः। निवेशितैरित्यर्थः। यवाङ्कुरैश्च परभृताविरुतैः कोकिलाकूजितैश्च। इत्येतैः स्मरबलैः। कामसैन्यैः। अबलास्वेक एव रसो रागो येषां तेऽबलैकरसाः स्त्रीपरतन्त्राः कृताः ॥
RV 9.44 द्रुतविलम्बितम्
उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी । सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उपचितेति॥ शुचिभिः शुभ्रैः कणै रजोभिरुपचितावयवा पुष्टावयवा। अलिकदम्बकयोगमुपेयुषी प्राप्ता। तिलकजा तिलकवृक्षोत्था मञ्जरी। अलकेषु जय्यालकमाभरणविशेषस्तस्मिन्मौक्तिकैः सदृशकान्तिः। अलक्ष्यत। भृङ्गसङ्गिनी शुभ्रा तिलकमञ्जरी नीलालकसक्ताजालमिवालक्ष्यतेति वाक्यार्थः ॥
RV 9.45 द्रुतविलम्बितम्
ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः । कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितमन्वयुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ध्वजेति॥ अलिव्रजाः षट्पदनिवहा धनुर्भृतो धानुष्कस्य मदनस्य कामस्य ध्वजपटं पताकाभूतम्। ऋतुश्रियो वसन्तलक्ष्म्याश्छविकरं शोभाकरं मुखचूर्णं मुखालंकारचूर्णभूतं सपवनोपवनोत्थितं सपवनं पवनेन सहितं यदुपवनं तस्मिन्नुत्थितम्। कुसुमानां केसरेषु किञ्जल्केषु यो रेणुस्तम्। अन्वयुरन्वगच्छन्। यातेर्लङ् ॥
RV 9.46 द्रुतविलम्बितम्
अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया । अनयदासनरज्जुपरिग्रहे भुजलतां जलतामवलाजनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनुभवन्निति॥ नवो दोला प्रेङ्खा यस्मिंस्तं नवदोलमृतूत्सवं वसन्तोत्सवमनुभवन्नबलाजनः पटुरपि निपुणोऽपि प्रियकण्ठस्य जिघृक्षया ग्रहीतुमालिङ्गितुमिच्छया आसनरज्जुपरिग्रहे पीठरज्जुग्रहणे भुजलतां बाहुलतां जलतां शैथिल्यम्। डलयोरभेदः। अनयत् दोलाक्रीडासु पतनभयनाटितकेन प्रियकण्ठमाश्लिष्यदित्यर्थः ॥
RV 9.47 द्रुतविलम्बितम्
त्यजत मानमालं बत विग्रहैर्न पुनरेति गतं चतुरं वयः । परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त्यजतेति॥ `बत`इत्यामन्त्रणे। `खेदानुकम्पासंतोषविस्मयामन्त्रणे बत` इत्यमरः। बत अङ्गाना मानं कोपं त्यजत। तदुक्तम्-`स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये`इति। विग्रहैर्विरोधैरलम्। विग्रहो न कार्य इत्यर्थः। गतमतीतं चतुरमुपभोगक्षमं वयो यौवनं पुनर्नैति नागच्छति। इत्येवंरूपे स्मरमते स्मराभिप्राये। नपुंसके भावे क्तः। परभृताभिः कोकिलाभिर्निवेदिते सतीव वधूजनो रमते स्म रेमे। कोकिलाकूजितोद्दीपितस्मरः स्त्रीजनः कामशासनभयादिवोच्छृङ्खलमखेलदित्यर्थः ॥
RV 9.48 द्रुतविलम्बितम्
अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः । नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथानन्तरं मधुं मथ्नातीति मधुमद्विष्णुः। संपदादित्वात्क्विप्। पधुर्वसन्तः। मध्नातीति भावः। पचाद्यच्। मनसो मथो मन्मथः कामः। तेषां संनिभः सदृशो मधुमन्मधुमन्मथसंनिभः स नरपतिर्दशरथो विलासवतीसखः स्त्रीसहचरः सन्। ऋतुः प्राप्तोऽस्यार्तवः। तमुत्सवं वसन्तोत्सवं यथा-सुखं समनुभूय मृगयारतिं मृगयाविहारं चकम आचकाङ्क्ष ॥
RV 9.49 द्रुतविलम्बितम्
परिचयं चललक्ष्यनिपातने भयरुषोश्च तदिङ्गितवोधनम् । श्रमजयात्प्रगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): परिचयमिति॥ असौ मृगया। चललक्ष्याणि मृगगवयादीनि। तेषां निपातने परिचयमभ्यासं करोति। भयरुषोर्भयक्रोधयोस्तदिङ्गितबोधनं तेषां चललक्ष्याणामिङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति। तनुं शरीरं श्रमस्य जयान्निरासात्प्रगुणां प्रकृष्टलाघवादिगुणवतीं च करोति। अतो हेतोः सचिवैरनुमतोऽनुमोदितः सन् ययौ। सर्वं चैतद्युद्धोपयोगीत्यतस्तदपेक्षया मृगयाप्रवृत्तिः। न तु व्यसनितयेति भावः ॥
RV 9.50 द्रुतविलम्बितम्
मृगवनोपगमक्षमवेषमृद्विपुलकण्ठनिषक्तशरासनः । गगनमश्वखुरोद्धतरेणुभिर्नृसविता स वितानमिवाकरोत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मृगेति॥ मृगाणां वनं तस्योपगमः प्राप्तिः। तस्य क्षममर्हं वेषां बिभर्तीति स तथोक्तः। मृगयाविहारानुगुणवेषधारीत्यर्थः। विपुलकण्ठे निषक्तशरासनो लग्नधन्वा। ना सवितेव नृसविता पुरुषश्रेष्ठः। उपमितसमासः। स राजाऽश्वखुरोद्धतरेणुभिर्गगनं वितानं तुच्छमसदिवाकरोत्। गगनं नालक्ष्यतेत्यर्थः। `वितानं तुच्छमन्दयोः` इति विश्वः। अथवा, -`सवितानम्` इत्येकं पदम्। सवितानमुल्लोचसहितमिवाकरोत् । `अस्त्री वितानमुल्लोचः` इत्यमरः (अ.को.2|6|121) ॥
RV 9.51 द्रुतविलम्बितम्
ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः । तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ग्रथितेति॥ वनमालया वनपुष्पस्रजा ग्रथितमौलिर्बद्धधम्मिल्लः । तरुणां पलाशैः पत्रैः सवर्णः समानस्तनुच्छदो वर्म यस्य स तथोक्तः। इदं च वर्मणः पलाशसावर्ण्याभिधानं मृगादीनां विश्वासार्थम्। तुरगस्य वल्गनेन गतिविशेषेण चञ्चलकुण्डलोऽसौ दशरथो रुरुभिर्भृगविशेषैश्चेष्टिताश्चरिता या भूमयस्तासु विरुरुचे विदिद्युते ॥
RV 9.52 द्रुतविलम्बितम्
तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः । ददृशुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तन्विति॥ तनुषु लतासु विनिवेशितविग्रहाः संक्रमितदेहाः। भ्रमरेषु संक्रमिता ईक्षणवृत्तयो दृग्व्यापारा यासां ता वनदेवताः सुनयनं सुलोचनं नयेन नीत्या नन्दितास्तोषिताः कोसला येन तं दशरथमध्वनि ददृशुः। प्रसन्नपावनतया तं देवता अपि गूढवृत्त्या ददृशुरित्यर्थः ॥
RV 9.53 द्रुतविलम्बितम्
श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः । स्थिगतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): श्वगणीति॥ स दशरथः। शुनां गणः स एषामस्तीति श्वगणिनः श्वप्राहिणः। तैः। वागुरा मृगबन्धनरज्जुः। `वागुरा मृगबन्धनी` इत्यमरः (अ.को.2|10|26)। तया चरन्तीति वागुरिका जालिकाः। `चरति` (पा.4।4।8) इति ठक्प्रत्ययः। `द्वौ वागुरिकजालिकौ` इत्यमरः (अ.को.2|10|14)। तैशअच प्रथममास्थइतमधिष्ठितम्। व्यपगता अनला दावाग्नयो दस्यवस्तस्कराश्च। यस्मात्तथोक्तम्। `दस्युतस्करमोषकाः` इत्यमरः (अ.को.2|10|24)। `कारयेद्वनविशोधनमादौ मातुरन्तिकमपि प्रविविक्षुः। आप्तशस्त्र्यनुगतः प्रविशेद्वा संकटे च गहने च न तिष्ठेत्॥` इति कामन्दकः। स्थिरा दृढा पङ्कादिरहिता तुरंगमयोग्या भूमिर्यस्य तत्। निपानवदाहावयुक्तम्। `आहावस्तु निपानं स्याद्गुपकूपजलाशये` इत्यमरः (अ.को.2|10|26)। मृगैर्हरिणादिभिर्वयोभिः पक्षिभिर्गवयैर्गोसदृशैररण्यपशुविशेषैश्चोपचितं समृद्धं वनं विवेश प्रविष्टवान् ॥
RV 9.54 द्रुतविलम्बितम्
अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् । धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथानाधिर्मनोव्यथारहितो नरवरो नरश्रेष्ठः। रवेण धनुष्टङ्कारेण रोषिताः केसरिणः सिंहा येन स राजा। कनकमिव पिङ्गः पिशङ्गो यस्तडिदेवप गुणो मौर्वी तेन संयुतं त्रिदशायुधमिन्द्रचापं नभस्यो भाद्रपदमास इव। `स्युर्नभस्यप्रौष्टपदभाद्रभाद्रपदाः समाः` इत्यमरः। अधिज्यमधिगतमौर्वीकं धनुरुपापदे जग्राह ॥
RV 9.55 वसन्ततिलका
तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं पुरस्तात् । आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ स्तनप्रणयिभिः स्तनपायिभिरेणशावैर्हरिणशिशुभिः। `पृथुकः शावकः शिशु` इत्यमरः (अ.को.2|5|40)। व्याहन्यमानं तद्वत्सलतया तद्गमनानुसारेण मुहुर्मुहुः प्रतिषिध्यमानं हरिणीनां गमनं गतिर्यस्य तत्। कुशा गर्भे येषां तानि मुखानि यस्य तत् कुशगर्भमुखम्। तस्य यूथस्याग्रेसरः पुरःसरो गर्वितो दृप्तश्च कृष्णसारो यस्य तत्। मृगाणां यूथं कुलम्। `सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम्` सारो यस्य तत्। मृगाणां यूथं कुलम्। `सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम्` इत्यमरः (अ.को.2|5|40)। तस्य दशरथस्य पुरस्तादग्र आविर्बभूव। वसन्ततिलका वृत्तम् ॥
RV 9.56 वसन्ततिलका
तत्प्रार्थितं जवनवाजिगतेन राज्ञा तूर्णीमुखोद्धृतशरेण विशीर्णपङ्क्ति । श्यामीचकार वनमाकुलदृष्टिपातै र्वातेरितोत्पलदलप्रकरैरिवार्द्रैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ जवनो जवशीलः। `जुचंक्रम्य`- (पा.3।2।150) इत्यादिना युच्प्रत्तययः। `तरस्वी त्वरितो वेगी प्रजवी जवनो जवः` इत्यमरः (अ.को.2|8|73)। तं वाजिनमश्वं गतेनारूडेन। तूणीषुधिः। `बह्वादिभ्यश्च` (पा.4।1।54)इति स्त्रियां ङीष्। तस्या मुखाद्विवरादुद्धृतशरेण राज्ञा प्रार्थितमभियाचितम्। `याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः`इति केशवः। अत एव विशीर्णा पङ्क्तिः संघीभावो यस्य तत्। मृगयूथं कर्तृ आद्रैर्भयादश्रुसिक्तैराकुला भयचकिता ये दृष्टिपातास्तैः। वातेरितोत्पलदलप्रकरैः पवनकम्पितेन्दीवरदलवृन्दैरिव। वनं श्यामीचकार ॥
RV 9.57 वसन्ततिलका
लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् । आकर्णकृष्टमपि कामितया स धन्वी बाणं कृपामृदुमनाः प्रतिसंजहार ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लक्ष्यीकृतेति॥ हरिरिन्द्रो विष्णुर्वा तस्येव प्रभावः सामर्थ्य यस्य स तथोक्तः। धन्वी धनुष्मान् स नृपः। लक्ष्यीकृतस्य वेद्धुमिष्टस्य हरिणस्य स्वप्रेयसो देहं व्यवधायानुरागादन्तर्धाय स्थिताम्। सह चरतीति सहचरी। पचादिषु चरतेष्टित्करणान्ङीप्। यथाह वामनः-`अनुचरीति चरेष्टित्त्वात्` इति। तां सहचरीं हरिणीं प्रेक्ष्य कामितया स्वयं कामुकत्वात्। कृपामृदुमनाः करुणार्द्रचितः सन्। आकर्णकृष्टमपि। दुष्प्रतिसंहरमपीत्यर्थः। बाणं प्रतिसंजहार। नैपुण्यादित्यर्थः। नैपुण्यं तु `धन्वी` इत्यनेन गम्यते ॥
RV 9.58 वसन्ततिलका
तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः । त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ त्रासाद्भयादतिमात्रचटुलैरत्यन्तचञ्चलैः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि प्रगल्भकान्ताविलोचनविवलासव्यापारान्सादृश्यात्स्मरतः। अपरेष्वपि मृगेषु शरान्मुमुक्षोर्मोक्तुमिच्छोस्तस्य नृपस्य निबिडो दृढोऽपि मुष्टिः कर्णान्तमेत्य प्राप्य बिभिदे। स्वयमेव भिद्यते स्म। भिदेः कर्मकर्तरि लिट्। कामिनस्तस्य प्रियाविभ्रमस्मृतिजनितकृपातिरेकान्मुष्टिभेदः। न त्वनैपुण्यादिति तात्पर्यार्थः ॥
RV 9.59 वसन्ततिलका
उत्तस्थुषः सपदि पल्वलपङ्कमध्यान्मुस्ताप्ररोहकवलावयवानुकीर्णम् । जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उत्तस्थुष इति॥ स नृपः मुस्ताप्ररोहाणां मुस्ताङ्कुराणां कवला ग्रासाः तेषामवयवैः श्रमविवृतमुखभ्रंशिभिः शकलैरनुकीर्णं व्याप्तम्। आयताभिर्दीर्घाभिरार्द्रपदपङ्क्तिभिः सुव्यक्तम्। सपदि पल्वलपङ्कमध्यादुत्तस्थुष उत्थितस्य द्रुतवराहकुसस्य पलायितवराहयूथस्य मार्गं जग्राहानुससार ॥
RV 9.60 वसन्ततिलका
तं वाहनादवनतोत्तरकायमीषद्विध्यन्तमुद्धृतसटाः प्रतिहन्तुमीषुः । नात्मानमस्य विविदुः सहसा वराहा वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ वराहाः। वाहनादश्वादीषदवनतोत्तरकायं किंचिदानतपूर्वकायं विध्यन्तं प्रहरन्तं तं नृपम्। उद्धृतसटा ऊर्ध्वकेसराः सन्तः। `सटा जटाकेसरयोः` इति केशवः। प्रतिहन्तुमीषुः प्रतिहर्तुमैच्छन्। अस्य नृपस्येषुभिः सहसा जघनानामाश्रयेष्ववष्टम्भेषु वृक्षेषु विद्धमात्मानं न विविदुः। एतेन वराहाणां मनस्वित्वं नृपस्य हस्तलाघवं चोक्तम् ॥
← Previous (Ch. 8) Full Table of Contents Next (Ch. 10) →