Skip to main content
Search
Ch. 8 RV 8.95
Full Chapter
RV • Chapter 8: Canto 8

RV 8.95

Canonical Ref: RV 8.95
Metrical Form: मन्दाक्रान्ता
Sanskrit (Devanāgarī)
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्देहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तीर्थ इति॥ असावजो जह्नुकन्यासरय्वोस्तोयानां जलानां व्यतिकरेण संभेदेन भघवे तीर्थे गङ्गासरयूसंगमे देहत्यागात्सद्य एवामरगणनायां लेख्यं लेखनम्। `तयोरेव कृत्यक्तखलर्थाः` (पा.3।4।70)इति भावार्थे ष्यत्प्रत्ययः। आसाद्य प्राप्य। पूर्वस्मादाकारादधिकतरा रुग्यस्यास्तया कान्तया रमण्या संगतः सन्। नन्दनस्येन्द्रोद्यानस्याभ्यन्तरेष्वन्तर्वर्तिषु लीलागारेषु क्रीडाभवनेषु पुनररमत। `यथाकथंचित्तीर्थेऽस्मिन्देहत्यागं करोति यः। तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि॥` इति स्कान्दे। मन्दाक्रान्ताच्छन्दः। तल्लक्षणम्-`मन्दाक्रान्ता जलधिषडगैम्भौ नतौ ताद्गुरू चेत्` इति॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 8.95. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 8.94) All Verses in Chapter 8 Next Verse (RV 9.1) →