Skip to main content
Search
RV
Raghuvaṁśam • Chapter 07

Canto 7

सप्तमः सर्गः (अजपाणिग्रहणम्)

Canto 7 of Raghuvaṁśam.

Total: 71 Verses • Citations: RV 7.1–71 • 1 Lexicon Terms • Page 3 of 3 (Verses 11 shown)
RV 7.61 उपजातिः
प्रियंवदात्प्राप्तमसौ कुमारः प्रायुङ्क्त राजस्वधिराजसूनुः । गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलौल्यः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रियंवदादिति। अधिराजसूनुर्महाराजपुत्रः कुसुमास्त्रकान्तो मदनसुन्दरः स्वप्ननिवृत्तलौल्यः स्वप्नवितृष्णः। जागरूक इत्यर्थः। असौ कुमारोऽजः प्रियंवदात्पूर्वोक्ताद्गन्धर्वात्प्राप्तं गान्धर्वं गन्धर्वदेवताकम्। `सास्य देवता` (पा.4।2।24) इत्यण्। प्रस्वापयतीति प्रस्वापनं निद्राजनकमस्त्रं राजसु प्रायुङ्क्त प्रयुक्तवान् ॥
RV 7.62 उपजातिः
ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् । तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततो धनुष्कर्षणे चापकर्षणे मूढहस्तमव्यापृतहस्तम्। एकस्मिन्नंसे पर्यस्तं स्रस्तं शिरस्त्राणां शीर्षण्यानां जालं समूहो यस्य तत्। ध्वजस्तम्भेषु निषण्णा अवष्टब्धा देहा यस्य तत्। नरदेवानां राज्ञां सेनैव सैन्यम्। चतुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः। निद्राविधेयं निद्रापरतन्त्रं तस्थौ ॥
RV 7.63 उपजातिः
ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलजं कुमारः । तेन स्वहस्तार्जितमेकवीरः पिबन्यशो मूर्तमिवाबभासे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः कुमारोऽजः प्रिययेन्दुमत्योपात्तरस आस्वादितमाधुर्ये। अतिश्लाघ्य इति भावः। अधरोष्ठे जलजं शङ्खं निवेश्य। `जलजं शङ्खपद्मयोः`इति विश्वः। दध्मौ मुखमारुतेन पूरयामास। तेनौष्ठनिविष्टेन शङ्खेनैकवीरः स स्वहस्तार्जितं मूर्तं मूर्तिमद्यशः पिबन्निवाबभासे । यशसः शुभ्रत्वादिति भावः ॥
RV 7.64 उपजातिः
शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रुं ददृशुः स्वयोधाः । निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शङ्खेति॥ शङ्खस्वनस्याजशङ्खध्वनेरभिज्ञतया प्रत्यभिज्ञातत्वान्निवृत्ताः प्रक्पलाय्य संप्रति प्रत्यागताः स्वयोधाः सन्नशत्रुं निद्राणशत्रुं तमजम्। निमीलितानां मुकुलितानां पङ्कजानां मध्ये स्फुरन्तं प्रतिमा चासौ शशाङ्कश्च तं प्रतिमाशशाङ्कं प्रतिबिम्बचन्द्रमिव ददृशुः ॥
RV 7.65 उपजातिः
सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम् । यशो हृतं संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सशोणितैरिति॥ संप्रति राघवेण रघुपुत्रेण। पूर्वं रघुणेति भावः। हे राजानः। वो युष्माकं यशो हृतं, जीवितं तु कृपया न हृतम्। न त्वशक्त्येति भावः। इत्येवंरूपा वर्णाः। एतदर्थप्रतिपादकं वाक्यमित्यर्थः। सशोणितैः शोणितदिग्धैः शिलीमुखाग्रैर्बाणाग्रैः साधनैस्तेनाजेन प्रयोजककर्त्रा। पार्थिवानां राज्ञां केतुषु ध्वजस्तम्भेषु निक्षेपिताः प्रयोज्यैरन्यैर्निवेशिताः लेखिता इत्यर्थः। क्षिपतेर्ण्यन्तात्कर्मणि क्तः ॥
RV 7.66 उपजातिः
स चापकोटीनिहितैकबाहु शिरस्त्रनिष्कर्षणभिन्नमौलिः । ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ चापकोट्यां निहित एकबाहुर्येन सः। शिरस्त्रस्य निष्कर्षणेनापनयनेन भिन्नमौलिः श्लथकेशबन्धः। `चूडाकिरीटं केशाश्च संयता मौलयस्त्रयः` इत्यमरः। ललाटे बद्धाः श्रमवारिबिन्दवो यस्य सः सोऽजो भीतां प्रियामिन्दुमतीमेत्यासाद्य वचो बभाषे ॥
RV 7.67 इन्द्रवज्रा
इतः परार्भकहार्यशस्त्रान्वैदर्भि! पश्यानुमता मयासि । एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इत इति॥ हे वैदर्भि इन्दुमति! इत इदानीमर्भकहार्यशस्त्रान् बालकापहार्यायुधान् पराञ्शत्रून्पश्य। मयाऽनुमतासि। द्रष्टुमिति शेषः। एभिर्नृपैरेवंविधेन निद्रारूपेणाहवचेष्टितेन रणकर्मणा मम हस्तगता। हस्तगतवद्दुर्ग्रहेत्यर्थः। त्वं प्रार्थ्यसे। अपजिहीर्ष्यस इत्यर्थः। `एवंविधेन`इत्यत्र स्वहस्तनिर्देशेन सोपहासमुवाचेति द्रष्टव्यम् ॥
RV 7.68 इन्द्रवज्रा
तस्याः प्रतिद्वन्द्विभवाद्विषादात्सद्यो विमुक्तं मुखमाबगभासे । निःश्वासबाष्पापगमात्प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति॥ प्रतिद्वन्द्विभवाद्रिपूत्थाद्विषादाद्दैन्यात् सद्यो विमुक्तं तस्या मुखम्। निःश्वासस्य यो बाष्प ऊष्मा। `बाष्पो नेत्रजलोष्मणोः` इति विश्वः। तस्यापगमाद्धेतोरात्मीयं प्रसादं नैर्मल्यं प्रपन्नः प्राप्तः। आत्मा स्वरूपं दृश्यतेऽनेनेत्यात्मदर्शो दर्पण इव। आबभासे ॥
RV 7.69 उपेन्द्रवज्रा
हृष्टापि सा विजिता न साक्षाद्वाग्भिः सखीनां प्रियमभ्यनन्दत् । स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हृष्टेति॥ सेन्दुमती हृष्टापि पत्युः पौरुषेण प्रमुदितापि ह्रिया बिजिता यतोऽतः प्रियमजं साक्षात् स्वयं नाभ्यनन्दन्न प्रशशंस। किंतु नवैरम्भः षृषतैः पयोबिन्दुभिरभिवृष्टाऽभिषिक्ता स्थल्वकृत्रिमा भूमिः। `जानपदकुण्डगोणस्थल-` (पा.4।1।49)इत्यादिनाऽकृत्रिमार्थे ङीष्। अभ्रवृन्दं मेघसंघं मयूरकेकाभिरिव सखीनां वाग्भिरभ्यनन्दत् ॥
RV 7.70 मालिनी
इति शिरसि स वामं पादमाधाय राज्ञामुदवहदनवद्यां तामवद्यादपेतः । रथतुरगरजोभिस्तस्य रूक्षालकाग्रा समरविजयलक्ष्मीः सैव मूर्ता बभूव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ नोद्यते नोच्त इत्यवद्यं गर्ह्यम्। `अवद्यपण्य-` (पा.3।1।101)इत्यादिना निपातः। `कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः` इत्यमरः (अ.को.3|1|54)। तस्मादपेतः। निर्दोष इत्यर्थः। सोऽज इति राज्ञां शिरसि वामं पादमाधायानवद्यामदोषां तामिन्दुमतीमुदवहदुपानयत्। आत्मसाञ्चकारेत्यर्थः। अयमर्थः `तमुद्वहन्तं पथि भोजकन्याम्`(7।35)इत्यत्र न श्लिष्टः। तस्याजस्य रथतुरगाणां रजोभी रूक्षाणि परुषाण्यलकाग्राणि यस्याः सा सेन्दुमत्येव मूर्ता मूर्तिमती समरविजयलक्ष्मीर्बभूव। एतल्लाभादन्यः को विजयलक्ष्मीलाभ इत्यर्थः॥
RV 7.71 मालिनी
प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् । तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभून्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रथमेति॥ प्रथममजागमनात्प्रागेव परिगतो ज्ञातोऽर्थो विवाहविजयरूपो येन स प्रथमपरिगतार्थो रघुर्विजयिनं विजययुक्तं श्लाघ्यजायासमेतं संनिवृत्तं प्रत्यागतं तमजमभिनन्द्य। तस्मिन्नज उपहितकुटुम्बः सन्। `सुतविन्यस्तपत्नीकः`(प्राय.3।451) इति याज्ञवल्क्यस्मरणादिति भावः। शान्तिमार्गो मोक्षमार्ग उत्सुकोऽभूत्। तथा हि-कुलधुर्ये कुलधुरंधरे सति सूर्यवंश्या गृहाय गृहस्थाश्रमाय न भवन्ति ॥
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →