अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम् । स्वसोरमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥
सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः । भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेशेषु च साभ्यसूया ॥
सां निध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः । काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः ॥
तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् । वरः सवध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ॥
ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु । बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचिष्टितानि ॥
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥
प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव । उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ॥
विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा । तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ॥
जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् । नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥
अर्धाञ्चिता सत्वरमुत्थितायाः पदे दुर्निमिते गलन्ती । कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥
तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् । विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥
ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि । तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥
स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुममंस्त भोज्या । पद्मेव नारायणमन्यथासौ लभेत कान्तं कथमात्मतुल्यम्? ॥
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् । अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ॥
रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथा हि बाला । गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ॥
इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन्कथाः श्रोत्रसुखाः कुमारः । उद्भासितं मह्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥
ततोऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः । वैदर्भनिर्दिष्टमथो विवेश नारीमनांसीव चतुष्कमन्तः ॥
महार्हसिंहासनसंस्थितोऽसौ सरत्नमर्ध्यं मधुपर्कमिश्रम् । भोजोपनीतं च तुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः ॥
दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः । वेलासकाशं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ॥
तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः । तमेव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयांचकार ॥
हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकासे । अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥
आसीद्वरः कण्टकितप्रकोष्ठः स्वन्नाङ्गुलिः संववृते कुमारी । तस्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥
तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिनिवर्तितानि । ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥
प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे । मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥
नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन । चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ ॥
हविःशमीपल्लवलाजगन्धी पुण्यः कृशानोरुदियाय धूमः । कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥
तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरम् । वधूमुखं पाटलगन्डलेखमाचारधूमग्रहणाद्बभूव ॥
तौ त्नातकैर्बन्धुमता च राज्ञा पुरंध्रिभिश्च क्रमशः प्रयुक्तम् । कन्याकुमारौ कनकासनस्थावार्द्राक्षतारोपणमन्वभूताम् ॥
इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा । महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधिश्रीः ॥
लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्ताः । वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ॥