Skip to main content
Search
Ch. 7 RV 7.59
Full Chapter
RV • Chapter 7: Canto 7

RV 7.59

Canonical Ref: RV 7.59
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
सर्वैर्बलाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च । सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रजह्रुर्युधि सर्व एव ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): सर्वैरिति॥ द्विरदप्रधानैर्गजमुख्यैः सर्वैर्बलाङ्गैः सेनाङ्गैः। `हस्त्यश्वरथपादातं सेनाङ्गं स्याञ्चतुष्टयम्` इत्यमरः। कङ्कटभेदिभिः ककवचभेदिभिः। `उरश्छदःकङ्कटकोऽजगरः कवचोऽस्त्रियाम्` इत्यमरः। सर्वायुधैश्च बाह्यबलमुक्त्वान्तरमाह-सर्वप्रयत्नेन च सर्व एव भूमिपाला युधि तस्मिन्नजे प्रजह्रुः। तं प्रजह्रुरित्यर्थः। सर्वत्र सर्वकारकशक्तिसंभवात्कर्मणोऽप्यधिकरणविवक्षायां सप्तमी। तदुक्तम्-`अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः। सर्वदा सर्वथाभावात्क्वचित्किंचिद्विवक्ष्यते` ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 7.59. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 7.58) All Verses in Chapter 7 Next Verse (RV 7.60) →