Skip to main content
Search
Ch. 7 RV 7.46
Full Chapter
RV • Chapter 7: Canto 7

RV 7.46

Canonical Ref: RV 7.46
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः । हतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): आधोरणानामिति॥ गजसंनिपाते गजयुद्धे निशितैरत एव क्षुराग्रैः क्षुरस्याग्रमिवाग्रं येषां तैश्चक्रैरायुधविशेषैर्हृतानि छिन्नान्यपि। श्येनानां पक्षिविशेषाणाम्। `पक्षी श्येनः` इत्यमरः (अ.को.2|8|59)। नखाग्रकोटिषु व्यासक्ताः केशा येषां तानि। आधोरणानां हस्त्यारोहाणाम्। `आधोरणा हस्तिपका हस्त्यारोहा निषादिनः` इत्यमरः (अ.को.2|8|59)। शिरांसि चिरेण पेतुः पतितानि। शिरः पातात्प्रागेवारुह्य पश्चादुत्पततां पक्षिणां नखेषु केशसङ्गश्चिरपातहेतुरिति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 7.46. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 7.45) All Verses in Chapter 7 Next Verse (RV 7.47) →