Skip to main content
Search
Ch. 7 RV 7.39
Full Chapter
RV • Chapter 7: Canto 7

RV 7.39

Canonical Ref: RV 7.39
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः । विस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध सूर्यम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): उत्थापित इति॥ संयति संग्रामेऽश्वैरुत्थापितः । स्यन्दनवंशानां रथसमूहानां चक्रै रथाङ्गैः सान्द्रीकृतो घनीकृतः। `वंशः पृष्ठास्थि गेहोर्ध्वकाष्ठे;वेणौ गणे कुले` इति केशवः। कुञ्जरकर्णानां तालैस्तानैर्विस्तारितः प्रसारितो रेणुर्नेत्रक्रमेणांशुकपरिपाट्या। अंशुकमिवेत्यर्थः। `स्याज्जटांशुकयोर्नेत्रम्` इति, `क्रमोऽङ्घ्रौ परिपाट्यां च` इति च केशवः। सूर्यमुपरुरोधाच्छादयामास ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 7.39. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 7.38) All Verses in Chapter 7 Next Verse (RV 7.40) →