Skip to main content
Search
Ch. 7 RV 7.32
Full Chapter
RV • Chapter 7: Canto 7

RV 7.32

Canonical Ref: RV 7.32
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
भर्तापि तावत्क्रथकैशिकानामनुष्ठितानन्तरजाविवाहः । सत्त्वानुरूपाहरणीकृतश्रीः प्रास्थापयद्राघवमन्वगाञ्च ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): भर्तेति॥ अनुष्ठितः संपादितोऽनन्तरजाया अनुजाया विवाहो येन स तथोक्तः क्रथकैशिकानां देशानां भर्ता स्वामी भोजोऽपि तावत् तदा सत्त्वानुरूपमुत्साहानुरूपं यथा तथा। आ समन्तात्। अनेनानियतवस्तुदानमित्यर्थः। हरणं कन्यायै देयं धनम्। `यौतकादि तु यद्देयं सुदायो हरणं च तत्` इत्यमरः (अ.को.2|8|28)। आहरणीकृता श्रीर्येन तथोक्तः सन्, राघवमजं प्रास्थापयत् प्रस्थापितवान्। स्वयमन्वगादनुजगाम च ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 7.32. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 7.31) All Verses in Chapter 7 Next Verse (RV 7.33) →