Skip to main content
Search
Ch. 2 RV 2.40
Full Chapter
RV • Chapter 2: Canto 2

RV 2.40

Canonical Ref: RV 2.40
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः । शस्त्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्त्रभृतां क्षिणोति ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स एवमुपायशून्यस्त्वं लज्जां विहाय निवर्तस्व। भवांस्त्वं गुरोर्दर्शिता प्रकाशिता शिष्यस्य कर्तव्या भक्तिर्येन स तथोक्तोऽस्ति। ननु गुरुधनं विनाश्य कथं तत्समीपं गच्छेयमत आह-शस्त्त्रेणेति। यद्रक्ष्यं धनं शस्त्त्रेणायुधेन। `शस्त्त्रमायुधलोहयोः` इत्यमरः। अशक्या रक्षा यस्य तदशक्यरक्षम्; रक्षितुमशक्यमित्यर्थः। तद्रक्ष्यं नष्टमपि शस्त्रभृतां यशो न क्षिणोति न हिनस्ति। अशक्यार्थेष्वप्रतिविधानं न दोषायेति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.40. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.39) All Verses in Chapter 2 Next Verse (RV 2.41) →