Skip to main content
Search
Ch. 2 RV 2.38
Full Chapter
RV • Chapter 2: Canto 2

RV 2.38

Canonical Ref: RV 2.38
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तदाप्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ । व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तदेति॥ तदा तत्कालः प्रभृतिरादिर्यस्मिन्कर्मणि तत्तथा तदाप्रभृत्येव वनद्विपानां त्रासार्थं भयार्थं शूलभृता शिवेन । अङ्गंसमीपमागताः प्राप्ताः सत्त्वाः प्राणिनो वृत्तिर्यस्मिंस्तत्। `अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः` इति केशवः। सिंहत्वं विधाय। अस्मिन्नद्रिकुक्षौ गुहायामहं व्यापारितो नियुक्तः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.38. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.37) All Verses in Chapter 2 Next Verse (RV 2.39) →