Skip to main content
Search
Ch. 17 RV 17.55
Full Chapter
RV • Chapter 17: Canto 17

RV 17.55

Canonical Ref: RV 17.55
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमः । यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): काममिति॥ प्रकृतिवैराग्यं प्रजाविरागम्। दैवादुत्पन्नमिति शेषः। सद्यः कामं सम्यक् शमयितुं प्रतिकर्तुं क्षमः शक्तः स राजा यस्य प्रकृतिवैराग्यस्य प्रतीकारः कार्यः कर्तव्यः। अनर्थहेतुत्वादित्यर्थः। तद्वैराग्यं नोदपादयत् । उत्पन्नप्रतीकारादनुत्पादनं वरमिति भावः। अत्र कौटिल्यः-`क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम्। विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयम्॥` तस्मात्प्रकृतीनां विरागकारणानि नोत्पादयेदित्यर्थः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 17.55. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 17.54) All Verses in Chapter 17 Next Verse (RV 17.56) →