Skip to main content
Search
Ch. 17 RV 17.50
Full Chapter
RV • Chapter 17: Canto 17

RV 17.50

Canonical Ref: RV 17.50
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः । स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): मन्त्र इति॥ तस्य राज्ञः प्रतिदिनं मन्त्रिभिः सह मन्त्रो विचारो बभूव। स मन्त्रः सेव्यमानोऽप्यन्वहमावर्त्यमानोऽपि जातु कदाचिदपि न सूच्यते न प्रकाश्यते। तत्र हेतुः-गुप्तद्वार इति। संवृतेङ्गिताकारादिज्ञानमार्ग इत्यर्थः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 17.50. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 17.49) All Verses in Chapter 17 Next Verse (RV 17.51) →