Skip to main content
Search
Ch. 17 RV 17.40
Full Chapter
RV • Chapter 17: Canto 17

RV 17.40

Canonical Ref: RV 17.40
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
ततः परमभिव्यक्तसौमनस्यनिवेदितैः । युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः परं व्यवहारदर्शनानन्तरं भृत्याननुजीविनः। अभिव्यक्तं मुखप्रसादादिलिङ्गैः स्फुटीभूतं यत्सौमनस्यं स्वामिनः प्रसन्नत्वं तेन निवेदितैः सूचितैः पाकाभिमुखैः सिद्ध्युन्मुखैर्विज्ञापनानां विज्ञप्तीनां फलैः प्रेप्सितार्थैर्युयोज योजयामास। अत्र बृहस्पतिः-`नियुक्तः कर्मनिष्पत्तौ विज्ञप्तौ च यदृच्छया। मृत्यान्धनैर्मानयंस्तु नवोऽप्यक्षोभ्यतां व्रजेत्` इति॥ कविश्च वक्ष्यति-`अक्षोभ्यः-`(17।44) इति अत्र सौमनस्यफलयोजनादिभिर्नृपस्य वृक्षसमाधिर्ध्वन्यत इत्यनुसंधेयम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 17.40. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 17.39) All Verses in Chapter 17 Next Verse (RV 17.41) →