Skip to main content
Search
Ch. 16 RV 16.70
Full Chapter
RV • Chapter 16: Canto 16

RV 16.70

Canonical Ref: RV 16.70
Metrical Form: उपेन्द्रवज्रा
Sanskrit (Devanāgarī)
वर्णोदकैः काञ्चनश्रृङ्गमुक्तैसतमायताक्ष्यः प्रणयादसिञ्चन् । तथागतः सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराजः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): वर्णोदकैरिति। तं कुशम्। आयताक्ष्यः काञ्चनस्य शृङ्गैर्मुक्तानि तैर्वर्णोदकैः कुङ्कुमादिवर्णद्रव्यसहितोदकैः प्रणयात्स्नेहादसिञ्चन्। तथागतस्तथास्थितः। वर्णोदकसिक्त इत्यर्थः। स कुशः सधातुनिष्यन्दो गैरिकद्रव्ययुक्तोऽद्रिराज इव। अतितरां बभासेऽत्यर्थं चकासे ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 16.70. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 16.69) All Verses in Chapter 16 Next Verse (RV 16.71) →