Skip to main content
Search
Ch. 16 RV 16.68
Full Chapter
RV • Chapter 16: Canto 16

RV 16.68

Canonical Ref: RV 16.68
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु । स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स कुशो नौर्विमानमिव नौविमानम्। उपमितसमासः। तस्मादवतीर्य विलोलहारः सन्, ताभिः स्त्रीभिः सहकरेणुभिः सह स्कन्धावलग्नोद्धृतपद्मिन्युत्पाटितनलिनी यस्य स तथोक्तः सन्। `नद्यृतश्च`(5।4।153) इति कप्रत्ययः। वन्यो द्विपेन्द्र इव। अप्सु रेमे ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 16.68. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 16.67) All Verses in Chapter 16 Next Verse (RV 16.69) →