Skip to main content
Search
Ch. 14 RV 14.87
Full Chapter
RV • Chapter 14: Canto 14

RV 14.87

Canonical Ref: RV 14.87
Metrical Form: मन्दाक्रान्ता
Sanskrit (Devanāgarī)
सीतां हित्वा दशमुखरिपुर्नोपयेमे यदन्यां तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार । वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथमपि परित्यागदुःखं विषेहे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): सीतामिति॥ दशमुखरिपू रामः सीतां हित्वा त्यक्त्वाऽन्यां स्त्रियं नोपयेमे न परिणीतवानिति यत्। `उपाद्यमः स्वकरणे` (पा.1।3।56) इत्यात्मनेपदम्। किंच, तस्याः सीताया एव प्रतिकृतेः प्रतिमायाः हिरण्मय्याः सखा प्रतिकृतिसखः सन् क्रतूनाजहाराहृतवानिति यत्तेन श्रवणविषयप्रापिणा श्रोत्रदेशगामिना भर्तुर्वृत्तान्तेन वार्तया हेतुना सा सीता दुर्वारं दुर्निरोधं परेत्यागेन यद्दुःखं तत्कथमपि विषेहे विसोढवती ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 14.87. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 14.86) All Verses in Chapter 14 Next Verse (RV 15.1) →