Skip to main content
Search
Ch. 14 RV 14.78
Full Chapter
RV • Chapter 14: Canto 14

RV 14.78

Canonical Ref: RV 14.78
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती स्वबलानुरूपैः । असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिमवाप्स्यसि त्वम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): पय इति॥ स्वबलानुरूपैः स्वशक्त्यनुसारिभिः पयसामम्भसां घटैः। स्तन्यैरिति च ध्वन्यते। आश्रमबालवृक्षान्संवर्धयन्ती त्वं तनयोपपत्तेः प्राक् पूर्वम्। असंशयं यथा तथा। स्तनं धयति पिबतीति स्तनंधयः शिशुः। `नासिकास्तनयोर्ध्माधेटाः` (पा.3।2।29) इति खश्प्रत्ययः। `अरुर्द्विष-` (पा.6।3।67) इत्यादिना मुमागमः। तस्मिन्या प्रीतिस्तामवाप्स्यसि। ततः परं सुलभ एव विनोद इति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 14.78. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 14.77) All Verses in Chapter 14 Next Verse (RV 14.79) →