Skip to main content
Search
Ch. 14 RV 14.61
Full Chapter
RV • Chapter 14: Canto 14

RV 14.61

Canonical Ref: RV 14.61
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् । मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): वाच्य इति॥ स राजा त्वया मद्वचनान्मद्वचनमिति कृत्वा। ल्यब्लोपे पञ्चमी। वाच्यो वक्तव्यः। किमित्यत आह `वह्नौ` इत्यादिभिः सप्तभिः श्लोकैः-अक्ष्णोः समीपे समक्षम्। विभक्त्यर्थेऽव्ययीभावः, सामीप्यार्थे वा। `अव्ययीभावे शरत्प्रभृतिभ्यः` (पा.5।4।107) इति समासान्तष्टच्प्रत्ययः। समक्षमग्रे वह्नौ विशुद्धामपि मां लोकवादस्य मिथ्यापवादस्य श्रवणाद्धेतोरहासीरत्याक्षीरिति यत्तच्छ्रुतस्य प्रख्यातस्य कुलस्य सदृशं किम्? किंत्वसदृशमित्यर्थः। यद्वा, -श्रुतस्य श्रवणस्य कुलस्य चेति योजना। कामचार्यसीति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 14.61. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 14.60) All Verses in Chapter 14 Next Verse (RV 14.62) →