Skip to main content
Search
Ch. 14 RV 14.43
Full Chapter
RV • Chapter 14: Canto 14

RV 14.43

Canonical Ref: RV 14.43
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् । न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुमासीदनुमोदितुं वा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इत्युक्तवन्तं जनकात्मजायां विषये नितान्तरूक्षाभिनिवेशमतिक्रूराग्रहमीशं स्वामिनं तेषथु भ्रातृषु मध्ये कश्चनापि निषेद्धुं निवारयितुमनुमोदितुं प्रवर्तयितुं वा शक्तो नासीत्। पक्षद्वयस्यापि प्रबलत्वादित्यर्थः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 14.43. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 14.42) All Verses in Chapter 14 Next Verse (RV 14.44) →