Skip to main content
Search Donate
Ch. 14 RV 14.38
Full Chapter
RV • Chapter 14: Canto 14

RV 14.38

Canonical Ref: RV 14.38
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
पौरेषु सोऽहं बहुलीभवन्तमपां तरंगेष्विव तैलबिन्दुम् । सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): पौरेष्विति॥ सोऽहम्। अपां तरंगेषु तैलबिन्दुमिव। पौरेषु बहुलीभवन्तं प्रसरन्तम्। स एव पूर्वो यस्य स तम्। तत्पूर्वमवर्णमपवादम्। `अवर्णोक्षेपनिर्वादपरीवादापवादवत्` इत्यमरः। द्विपेन्द्रः। आलानमेवालानिकम्। विनयादित्वात्स्वार्थे ठक्। अथवा, -आलानं बन्धनं प्रयोजनमस्येत्यालानिकम्। `प्रयोजनम्` (पा.5।1।109) इति ठक्। स्थाणुं स्तम्भमिव। `चूतवृक्ष`इतिवत्सामान्यविशेषभावादपौनरुक्त्यं द्रष्टव्यम्। सोढुं नेशे न शक्नोमि ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 14.38. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 14.37) All Verses in Chapter 14 Next Verse (RV 14.39) →