Skip to main content
Search
Ch. 12 RV 12.60
Full Chapter
RV • Chapter 12: Canto 12

RV 12.60

Canonical Ref: RV 12.60
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात् । मारुतिः सागरं तीर्णः संसारमिव निर्ममः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): प्रवृत्ताविति॥ संपातिमर्ना जटायुषो ज्यायान्भ्राता। तस्य दर्शनात्। तन्मुखादिति भावः। तस्यः सीतायाः प्रवृत्तौ वार्तायाम्। `वार्ता प्रवृत्तिर्वृत्तान्तः` इत्यमरः (अ.को.1|6|7)। उपलब्धायां ज्ञातायां सत्याम्। मरुतस्यापत्यं पुमान् मारुतिर्हनुमान्। सागरम्। ममेत्येतदव्ययं ममतावाचि। तद्रहितो निर्ममो निःस्पृहः संसारमविद्याबन्धनमिव। तीर्णस्ततार। तरतेः कर्तरि क्तः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 12.60. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 12.59) All Verses in Chapter 12 Next Verse (RV 12.61) →