Skip to main content
Search
Ch. 12 RV 12.58
Full Chapter
RV • Chapter 12: Canto 12

RV 12.58

Canonical Ref: RV 12.58
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते । धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयथ् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स हत्वा वालिनं वीरः स रामो वालिनं सुग्रीवाग्रजं हत्वा चिरकाङ्क्षिते तत्पदे वालिस्थाने। धातोः स्थान आदेशमिव। आदेशभूतं धात्वन्तरमिवेत्यर्थः। सुग्रीवं संन्यवेशयत्स्थापितवान्। यथा `अस्तेर्भूः`इत्यस्तिधातोः स्थान आदेशो भूधातुरस्तिकार्यमशेषं समभिधत्ते तद्विदिति भावः। आदेशो नाम शब्दान्तरस्य स्थाने विधीयमानं शब्दान्तरमभिधीयते ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 12.58. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 12.57) All Verses in Chapter 12 Next Verse (RV 12.59) →