Skip to main content
Search
Ch. 12 RV 12.41
Full Chapter
RV • Chapter 12: Canto 12

RV 12.41

Canonical Ref: RV 12.41
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
सा वक्रनखधारिण्या वेणुकर्कशपर्वया । अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा वक्रनखं धारयतीति वक्रनखधारिणी तया वेणुवत्कर्कशपर्वया। अत एवाङ्कुशस्याकार इवाकारो यस्याः सा तया अङ्गुल्या तौ राघवावम्बरे व्योम्नो स्थिता। `अम्बुरं व्योम्नि वाससि` इत्यमरः। अतर्जयदभर्त्सयत्। `तर्ज भर्त्सने` इति धातोश्चौरादिकादनुदात्तेत्त्वादात्मनेपदेन भाव्यम्। तथापि चक्षिङो ङइत्करणाञ्ज्ञापकादानुदात्तेत्त्वनिमित्तस्यानित्यत्वात्परस्मैपदमूह्यृमित्युक्तमाख्यातचन्द्रिकायाम्-`तर्जयते भर्त्सयते तर्जयतीत्यपि च दृश्यते कविषु`इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 12.41. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 12.40) All Verses in Chapter 12 Next Verse (RV 12.42) →