Skip to main content
Search
Ch. 12 RV 12.34
Full Chapter
RV • Chapter 12: Canto 12

RV 12.34

Canonical Ref: RV 12.34
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
कलत्रवानहं बाल!कनीयांसं भजस्व मे । इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): कलत्रवानिति॥ वृषः पुमान्। `वृषः स्याद्वासवे धर्मे सौरभेये च शुक्रले। पुंराशिमेदयोः शृङ्ग्यां मूषकश्रेष्ठयोरपि॥` इति विश्वः। वृषं पुरुषमात्मार्थमिच्छतीति वृषस्यन्ती कामुकी। `वृषस्यन्ती तु कामुकी` इत्यमरः (अ.को.2|6|9)। `सुप आत्मनः क्यच्` (पा.3।1।8)इति क्यच्प्रत्ययः। अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि (पा.7।1।51)इत्यसुगागमः। ततो लटः शत्रादेशः। `उगितशअच` (पा.4।1।6)इति ङीप्। श्लोकार्थस्तु-वृषस्कन्धो रामो वृषस्तन्तीं तां राक्षसीम् `हे बाले! अहं कलत्रवान्, मे कनीयांसं कनिष्ठं भजस्व`इति शशासाः ज्ञापितवान् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 12.34. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 12.33) All Verses in Chapter 12 Next Verse (RV 12.35) →