Skip to main content
Search
Full Chapter
RV • Chapter 10: Canto 10

RV 10.6

Canonical Ref: RV 10.6
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः । अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): त इति॥ ते देवाश्चोदन्वन्तं समुद्रम्। `उदन्वानुदधौ च` (पा.8।2।13) इति निपातः। प्रापुः। आदिपूरुषो विष्णुश्च बुबुधे। योगनिद्रां जहावित्यर्थः। गमनप्रतिबोधयोरविलम्बार्थौ चकारौ। तथा हि-अव्याक्षेपो गम्यस्याव्यासङ्गः। अविलम्ब इति यावत्। भविष्यन्त्याः कार्यसिद्धेर्लक्षणं लिङ्गं हि॥ उक्तं च-`अनन्यपरता चास्य कार्यसिद्धेस्तु लक्षणम्` इति॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 10.6. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 10.5) All Verses in Chapter 10 Next Verse (RV 10.7) →