Skip to main content
Search
Full Chapter
RV • Chapter 10: Canto 10

RV 10.5

Canonical Ref: RV 10.5
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम् । अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ तस्मिन्नवसरे पुत्रकामेष्टिप्रवृत्तिसमये देवाः। पुलस्त्यस्य गोत्रापत्यं पुमान् पौलस्त्यो रावणः। तेनोपप्लुताः पीडिताः सन्तः निदाघार्ता धर्मातुराः। अध्वानं गच्छन्तीत्यध्वगाः पान्थाः। `अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः` (पा.3।2।48)इति डप्रत्ययः। छायाप्रधानं वृक्षं छायावृक्षमिव। शाकपार्थिवादित्वात्समासः। हरिं विष्णुमभिजग्मुः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 10.5. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 10.4) All Verses in Chapter 10 Next Verse (RV 10.6) →