Skip to main content
Search
Ch. 1 RV 1.36
Full Chapter
RV • Chapter 1: Canto 1

RV 1.36

Canonical Ref: RV 1.36
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स्निग्धेति॥ स्निग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यन्दनं रथम्। प्रावृषि भवः प्रावृषेण्यः। `प्रावृष एण्यः` (पा.4।3।17) इत्येण्यप्रत्ययः। तं प्रावृषेण्यं पयोवाहं मेघं विद्युदैरावताविव। आस्थितावारूढौ। जग्मतुरिति पूर्वेण संबन्धः। इरा आपः। `इरा भूवाक्सुराप्सु स्यात्` इत्यमरः। इरावान् समुद्रः। तत्र भव ऐरावतोऽभ्रमातङ्गः। `ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः` इत्ममरः। `अभ्रमातङ्गत्वाञ्चाभ्रस्थत्वादभ्ररूपत्वात्` इति क्षीरस्वामी। अत एव मेघारोहणं विद्युत्साहचर्यं च घटये। किंच विद्युत ऐरावतसाहचर्यादेवैरावतीसंज्ञा। ऐरावतस्य स्त्रयैरावतीति क्षीरस्वामी। तस्मात्सुष्ठूक्तं विद्युदैरावताविवेति। एकरथारोहणोक्त्या कार्यसिद्धिबीजं दंपत्योरत्यन्तसौमनस्यं सूचयति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.36. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.35) All Verses in Chapter 1 Next Verse (RV 1.37) →