Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 06

Canto 6

षष्ठः सर्गः

Canto 6 of Naiṣadhīyacaritam.

Total: 113 Verses • Citations: NC 6.1–113 • 1 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
NC 6.61 उपजातिः
यत्रैकयालीकनलीकृताली कण्ठे मृषाभीमभवीभवन्त्या । तदृक्पथे दौहदिकोपनीता शालीनमाधायि मधूकमाला ॥
NC 6.62 उपजातिः
चन्द्राभमाभ्रं तिलकं दधाना तद्वन्निजास्येन्दुकृतानुबिम्बम् । सखीमुखे चन्द्रसमे ससर्ज चन्द्रानवस्थामिव कापि यत्र ॥
NC 6.63 उपजातिः
दलोदरे काञ्चनकेतकस्य क्षणान्मसीभावुकवर्णलेखम् । तस्यैव यत्र स्वमनङ्गलेखं लिलेख भैमी नखलेखिनीभिः ॥
NC 6.64 उपजातिः
विलेखितुं भीमभुवो लिपीषु सख्याऽतिविख्यातिभृतापि यत्र । अशाकि लीलाकमलं न पाणिः अपारि कर्णोत्पलमक्षि नैव ॥
NC 6.65 उपजातिः
भैमीमुपावीणयदेत्य यत्र कलिप्रियस्य प्रियशिष्यवर्गः । गन्धर्ववध्वः स्वरमध्वरीणतत्कण्ठनालैकधुरीणवीणः ॥
NC 6.66 उपजातिः
नावा स्मरः किं हरभीतिगुप्तेः पयोधरे खेलति कुम्भ एव । इत्यर्धचन्द्राभनखाङ्कचुम्बिकुचा सखी यत्र सखीभिरूचि ॥
NC 6.67 उपजातिः
स्मराशुगीभूय विदर्भसुभ्रुवक्षो यदक्षभि खलु प्रसूनैः । स्रजं सृजन्त्या तदशोधि तेषु यत्रैकया सूचिशिखां निखाय ॥
NC 6.68 उपजातिः
यत्रावदत्तामतिभीय भैमी त्यज त्यजेदं सखि ! साहसिक्यम् । त्वमेव कृत्वा मदनाय दत्से बाणान्प्रसूनानि गुणेन सज्जाम् ॥
NC 6.69 इन्द्रवज्रा
आलिख्य सख्याः कुचपत्रभङ्गी मध्ये सुमध्या मकरीं करेण । यत्रालपत्तामिदमालि ! यानं मन्ये त्वदेकावलिनाकनद्याः ॥
NC 6.70 उपजातिः
तामेव सा यत्र जगाद भूयः पयोधियादः कुचकुम्भयोस्ते । सेयं स्थिता तावकहृच्छयाङ्कप्रियास्तु विस्तारयशः प्रशस्तिः ॥
NC 6.71 इन्द्रवज्रा
शारीं चरन्तीं सखि ! मारयैताम् इत्यक्षदाये कथिते कयापि । यत्र स्वघातभ्रमभीरुशारीकाकूत्थसाकूतहसः स जज्ञे ॥
NC 6.72 उपजातिः
भैमीसमीपे स निरीक्ष्य यत्र ताम्बूलजाम्बूनदहंसलक्ष्मीम् । कृतप्रियादूत्यमहोपकारम् अरालमोहद्रढिमानमूहे ॥
NC 6.73 उपजातिः
तस्मिन्नियं सेति सखीसमाजे नलस्य संदेहमथ व्युदस्यन् । अपृष्ट एव स्फुटमावचक्षे स कोऽपि रूपातिशयः स्वयं ताम् ॥
NC 6.74 उपजातिः
भैमीविनोदाय मुदा सखीभिः तदाकृतीनां भुवि कल्पितानाम् । नातर्कि मध्ये स्फुटमप्युदीतं तस्यानुबिम्बं मणिवेदिकायाम् ॥
NC 6.75 उपजातिः
हुताशकीनाशजलेशदूतीः निराकरिष्योः कृतकाकुयाच्ञाः । भैम्या वचोभिः स निजां तदाशां न्यवर्तयद्दूरमपि प्रयाताम् ॥
NC 6.76 उपजातिः
विज्ञप्तिमन्तः सभयः स भैम्या मध्येसभं वासवसम्भलीयाम् । संभालयामास भृशं कृशाशः तदालिवृन्दैरभिनन्द्यमानाम् ॥
NC 6.77 उपजातिः
लिपिर्न दैवी सुपठा भुवीति तुभ्यं मयि प्रेषितवाचिकस्य । इन्द्रस्य दूत्यां रचय प्रसादं विज्ञापयन्त्यामवधानदानैः ॥
NC 6.78 उपजातिः
सलीलमालिङ्गनयोपपीडम् अनामयं पृच्छति वासवस्त्वाम् । शेषस्त्वदाश्लेषकथापनिद्रैः तद्रोमभिः संदिदिशे भवत्यै ॥
NC 6.79 उपजातिः
यः प्रेर्यमाणोऽपि हृदा मघोनः त्वदर्थनायां ह्रियमापदागः । स्वयंवरस्थानजुषस्तमस्य बधान कण्ठं वरणस्रजाशु ॥
NC 6.80 इन्द्रवज्रा
नैनं त्यज क्षीरधिमन्थनाद्यैः अस्यानुजायोद्गमितामरैः श्रीः । अस्मै विमथ्येक्षुरसोदमन्यां श्राम्यन्तु नोत्थापयितुं श्रियं ते ॥
NC 6.81 इन्द्रवज्रा
लोकस्रजि द्यौर्दिवि चादितेया अप्यादितेयेषु महान्महेन्द्रः । किंकर्तुमर्थी यदि सोऽपि रागाज्जागर्ति कक्षा किमतः परापि ॥
NC 6.82 उपजातिः
पदं शतेनाप मखैर्यदिन्द्रः तस्मै स ते याचनचाटुकारः । कुरु प्रसादं तदलंकुरुष्व स्वीकारकृद्भ्रूनटनश्रमेण ॥
NC 6.83 इन्द्रवज्रा
मन्दाकिनीनन्दनयोर्विहारे देवे धवे देवरि माधवे च । श्रेयः श्रिया यातरि यच्च सख्यां तच्चेतसा भाविनि ! भावयस्व ॥
NC 6.84 उपजातिः
रज्यस्व राज्ये जगतामितीन्द्रात्याच्ञाप्रतिष्ठां लभसे त्वमेव । लघूकृतस्वं बलियाचनेन तत्प्राप्तये वामनमामनन्ति ॥
NC 6.85 उपजातिः
यानेव देवान्नमसि त्रिकालं न तत्कृतघ्नीकृतिरौचिती ते । प्रसीद तानप्यनृणान्विधातुं पतिष्यतस्त्वत्पदयोस्त्रिसंध्यम् ॥
NC 6.86 इन्द्रवज्रा
इत्युक्तवत्या निहितादरेण भैम्या गृहीता मघवत्प्रसादः । स्रक्पारिजातस्य ऋते नलाशां वासैरशेषामपुरूपदाशाम् ॥
NC 6.87 इन्द्रवज्रा
आर्ये ! विचार्यालमिहेति कापि योग्यं सखि ! स्यादिति काचनापि । ओंकार एवोत्तरमस्तु वस्तु मङ्गल्यमत्रेति च काप्यवोचात् ॥
NC 6.88 उपजातिः
अनाश्रवा वः किमहं कदापि वक्तुं विशेषः परमस्ति शेषः । इतीरिते भीमजया न दूतीम् आलिङ्गदालीश्च मुदामियत्ता ॥
NC 6.89 उपजातिः
भैमीं च दूत्यं च न किंचिदापम् इति स्वयं भावयतो नलस्य । आलोकमात्राद्यदि तन्मुखेन्दोः अभून्न भिन्नं हृदयारविन्दम् ॥
NC 6.90 उपजातिः
ईषत्स्मितक्षालितसृक्विभागा दृक्संज्ञया वारिततत्तदालिः । स्रजा नमस्कृत्य तयैव शक्रं तां भीमभूरुत्तरयांचकार ॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →