सोऽयमित्थमथ भीमनन्दिनीं दारसारमधिगम्य नैषधः । तां तृतीयपुरुषार्थवारिधेः पारलम्भनतरीमरीरमत् ॥
आत्मवित्सह तया दिवानिशं भोगभागपि न पापमाप सः । आहृता हि विषयैकतानता ज्ञानधौतमनसं न लिम्पति ॥
न्यस्य मन्त्रिषु स राज्यमादरादारराध मदनं प्रियासखः । नैकवर्णमणिकोटिकुट्टिमे हेमभूमिभृति सौधभूधरे ॥
वीरसेनसुतकण्ठभूषणीभूतदिव्यमणिपङ्क्तिशक्तिभिः । कामनोपनमदर्थतागुणाद्यस्तृणीकृतसुपर्वपर्वतः ॥
धूपितं यदुदरान्तरं चिरं मेचकैरगरुसारदारुभिः । जालजालधृतचन्द्रचन्दनक्षोदमेदुरसमीरशीतलम् ॥
क्वापि कामशरवृत्तवर्तयो यं महासुरभितैलदीपिकाः । तेनिरे वितिमिरं स्मरस्फुरद्दोःप्रतापनिकराङ्कुरश्रियः ॥
कुङ्कुमैणमदपङ्कलेपिताः क्षलिताश्च हिमवालुकाम्बुभिः । रेजुरध्वततशैलजस्रजो यस्य मुग्धमणिकुट्टिमा भुवः ॥
नैषधाङ्गपरिमर्दमेदुरामोदमाऋदवमनोज्ञवर्णया । यद्भुवः क्वचन सूनशय्ययाभजि भालतिलकप्रगल्भता ॥
क्वापि यन्निकटनिष्कुटस्फुरत्कोरकप्रकरसौरभोर्मिभिः । सान्द्रमाद्रियत भीमनन्दनानासिकापुटकुटीकुटुम्बिता ॥
ऋद्धसर्वऋतुवृक्षवाटिकाकीरकृत्तसहकारशीकरैः । यज्जुषः स्म कुलमुख्यमाशुगः प्राणवातमुपदाभिरञ्चति ॥
कुत्रचित्कनकनिर्मिताखिलः क्वापि यो विमलरत्नजः किल । कुत्रचिद्रचितचित्रशालिकः क्वापि चास्थिरविधैन्द्रजालिकः ॥
चित्रतत्तदनुकार्यविभ्रमाधाय्यनेकविधरूपरूपकम् । वीक्ष्य यं बहु धुवञ्शिरो जरावातकी विधिरकल्पि शिल्पिराट् ॥
भित्तिगर्भगृहगोपितैर्जनैर्यः कृताद्भुतकथादिकौतुकः । सूत्रयन्त्रजविशिष्टचेष्टयाश्चर्यसञ्जिबहुशालभञ्जिकः ॥
तामसीष्वपि तमीषु भित्तिगै रत्नरश्मिभिरमन्द्रचन्द्रिकः । यस्तपेपि जलयन्त्रपातुकासारदूरधुततापतन्द्रिकः ॥
यत्र पुष्पशरशास्त्रकारिकासारिकाध्युषितनागदन्तिका । भीमजानिषधसार्वभौमयोः प्रत्यवैक्षत रते कृताकृते ॥
यत्र मत्तकलविङ्कशीलिताश्लीलकेलिपुनरुक्तवत्तयोः । क्वापि दृष्टिभिरवापि वापिकोत्तंसहंसमिथुनस्मरोत्सवः ॥
यत्र वैणरववैणवस्वरैर्हुंकृतैरुपवनीपिकालिनाम् । कङ्कणालिकलहैश्च नृत्यतां कुब्जितं सुरतकूजितं तयोः ॥
सीत्कृतान्यशृणुतां विशङ्कयोर्यत्प्रतिष्ठितरतिस्मरार्चयोः । जालकैरपवरान्तरेऽपि तौ त्याजितैः कपटकुड्यतां निशि ॥
कृष्णसारमृगशृङ्गभङ्गुरा स्वादुरुज्ज्वलरसैकसारिणी । नानिशं त्रुटति यन्मुखे पुरा किन्नरीविकटगीतिझंकृतिः ॥
भित्तिचित्रलिखिताखिलक्रमा यत्र तस्थुरितिहाससंकथाः । पद्मनन्दनसुतारिरंसुतामन्दसाहसहसन्मनोभुवः ॥
पुष्पकाण्डजयडिण्डिमायितं यत्रगौतमकलत्रकामिनः । पारदारिकविलाससाहसं देवभर्तुरुदटङ्कि भित्तिषु ॥
उच्चलत्कलरवालिकैतवाद्वैजयन्तविजयार्जिता जगत् । यस्य कीर्तिरवदायति स्म सा कार्तिकीतिथिनिशीथिनीस्वसा ॥
गौरभानुगुरुगेहिनीस्मरोद्वृत्तभावमितिवृत्तमाश्रिताः । रेजिरे यदजिरेऽभिनीतिभिर्नाटिका भरतभारतीसुधा ॥
शंभुदारुवनसंभुजिक्रियामाधवव्रजवधूविलासयोः । गुम्फितैरुशनसा सुभाषितैर्यस्य हाटकविटङ्कमङ्कितम् ॥
अह्नि भानुभुवि दाशदारिकां यच्चरः परिचरन्तमुज्जगौ । कालदेशविषायासहात्स्मरादुत्सुकं शुकपितामहं शुकः ॥
नीतमेव करलभ्यपारतामप्रतीर्य मुनयस्तपोर्णवम् । अप्सरःकुचघटावलम्बनात्स्थायिना क्वचन यत्र चित्रगाः ॥
स्वामिना च वहता च तं मया स स्मरः सुरतवर्जनाज्जितः । योऽयमीदृगिति नृत्यते स्म यत्केकिना मुरजनिस्वनैर्घनैः ॥
यत्र वीक्ष्य नलभीमसं भवे मह्यतो रतिरतीशयोरपि । स्पर्धयेव जयतोर्जयाय ते कामकामरमणीबभूवतुः ॥
तत्र सौधसुरभूधरे तयोराविरासुरथ कामकेलयः । ये महाकविभिरप्यवीक्षिताः पांसुलाभिरपि ये न शिक्षिताः ॥
पौरुषं दधति योषिता नले स्वामिनि श्रिततदीयभावया । यूनि शैशवमतीर्णया कियत्प्रापि भीमसुतया न साध्वसम् ॥