Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 23

Araṇyakaparva (Vanaparva) Adhyāya 23

अरण्यकपर्व • अध्यायः 23

Araṇyakaparva (Vanaparva) Adhyāya 23 of the classical Mahābhārata with 52 verses.

Total: 52 Verses • Citations: MBh 3.23.1–52 • 250 Lexicon Terms • Page 2 of 2 (Verses 22 shown)
क्षुरान्तममलं चक्रं कालान्तकयमोपमम् । अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम् ॥
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम । इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ॥
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा । द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः ॥
तत्समासाद्य नगरं सौभं व्यपगतत्विषम् । मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ॥
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् । महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ॥
तस्मिन्निपतिते सौभे चक्रमागात्करं मम । पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम् ॥
ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे । द्विधा चकार सहसा प्रजज्वाल च तेजसा ॥
तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः । हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ॥
ततोऽहं समवस्थाप्य रथं सौभसमीपतः । शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ॥
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् । दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः ॥
एवं निहत्य समरे शाल्वं सौभं निपात्य च । आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम् ॥
एतस्मात्कारणाद्राजन्नागमं नागसाह्वयम् । यद्यगां परवीरघ्न न हि जीवेत्सुयोधनः ॥
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः । आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः ॥
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् । राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ॥
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् । आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ॥
सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा । द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ॥
ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः । द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ॥
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् । जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ॥
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा । आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ॥
ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः । विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ॥
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः । आसीन्महात्मनां तेषां काम्यके भरतर्षभ ॥
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः । शशास पुरुषान्काले रथान्योजयतेति ह ॥
← Previous (Ch. 319) Full Table of Contents Next (Ch. 321) →