Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 15

Araṇyakaparva (Vanaparva) Adhyāya 15

अरण्यकपर्व • अध्यायः 15

Araṇyakaparva (Vanaparva) Adhyāya 15 of the classical Mahābhārata with 23 verses.

Total: 23 Verses • Citations: MBh 3.15.1–23 • 250 Lexicon Terms
असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन । क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः ॥
शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ । विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम् ॥
महातेजा महाबाहुर्यः स राजा महायशाः । दमघोषात्मजो वीरः शिशुपालो मया हतः ॥
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति । स रोषवशसंप्राप्तो नामृष्यत दुरात्मवान् ॥
श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः । उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ॥
स तत्र योधितो राजन्बालकैर्वृष्णिपुंगवैः । आगतः कामगं सौभमारुह्यैव नृशंसकृत् ॥
ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा । पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः ॥
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः । वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः ॥
तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम् । आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः ॥
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् । अहत्वा न निवर्तिष्ये सत्येनायुधमालभे ॥
क्वासौ क्वासाविति पुनस्तत्र तत्र विधावति । मया किल रणे युद्धं काङ्क्षमाणः स सौभराट् ॥
अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम् । शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् ॥
मम पापस्वभावेन भ्राता येन निपातितः । शिशुपालो महीपालस्तं वधिष्ये महीतले ॥
भ्राता बालश्च राजा च न च संग्राममूर्धनि । प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् ॥
एवमादि महाराज विलप्य दिवमास्थितः । कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ॥
तमश्रौषमहं गत्वा यथा वृत्तः सुदुर्मतिः । मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः ॥
ततोऽहमपि कौरव्य रोषव्याकुललोचनः । निश्चित्य मनसा राजन्वधायास्य मनो दधे ॥
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव । प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ॥
ततः सौभवधायाहं प्रतस्थे पृथिवीपते । स मया सागरावर्ते दृष्ट आसीत्परीप्सता ॥
ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप । आहूय शाल्वं समरे युद्धाय समवस्थितः ॥
सुमुहूर्तमभूद्युद्धं तत्र मे दानवैः सह । वशीभूताश्च मे सर्वे भूतले च निपातिताः ॥
एतत्कार्यं महाबाहो येनाहं नागमं तदा । श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् ॥
← Previous (Ch. 311) Full Table of Contents Next (Ch. 313) →