Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 12

Araṇyakaparva (Vanaparva) Adhyāya 12

अरण्यकपर्व • अध्यायः 12

Araṇyakaparva (Vanaparva) Adhyāya 12 of the classical Mahābhārata with 76 verses.

Total: 76 Verses • Citations: MBh 3.12.1–76 • 250 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् । अनेन हि मम भ्राता बको विनिहतः प्रियः ॥
वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा । विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् ॥
हिडिम्बश्च सखा मह्यं दयितो वनगोचरः । हतो दुरात्मनानेन स्वसा चास्य हृता पुरा ॥
सोऽयमभ्यागतो मूढो ममेदं गहनं वनम् । प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते ॥
अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम् । तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ॥
अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च । शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम् ॥
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै । अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ॥
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् । संभक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् ॥
एवमुक्तस्तु धर्मात्मा सत्यसंधो युधिष्ठिरः । नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ॥
ततो भीमो महाबाहुरारुज्य तरसा द्रुम । दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा ॥
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् । निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ॥
निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम् । अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत ॥
इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः । निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली । तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ॥
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि । पातयामास वेगेन कुलिशं मघवानिव ॥
असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत । चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ॥
तदुदस्तमलातं तु भीमः प्रहरतां वरः । पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ॥
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् । दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत ॥
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् । वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा ॥
शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः । यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा ॥
मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः । चीराणीव व्युदस्तानि रेजुस्तत्र महावने ॥
तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते । राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ॥
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः । प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह ॥
तं शिलाताडनजडं पर्यधावत्स राक्षसः । बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ॥
तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् । उभावपि चकाशेते प्रयुद्धौ वृषभाविव ॥
तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः । नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ॥
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः । कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ॥
अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः । मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः ॥
तं चाप्याथ ततो रक्षः प्रतिजग्राह वीर्यवान् । तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ॥
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा । शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ॥
अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः । धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ॥
← Previous (Ch. 308) Full Table of Contents Next (Ch. 310) →