Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 9

Araṇyakaparva (Vanaparva) Adhyāya 9

अरण्यकपर्व • अध्यायः 9

Araṇyakaparva (Vanaparva) Adhyāya 9 of the classical Mahābhārata with 13 verses.

Total: 13 Verses • Citations: MBh 3.9.1–13 • 250 Lexicon Terms
धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम । वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम् ॥
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम् । निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः ॥
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे । विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत ॥
तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीः । पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति ॥
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः । वनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते ॥
यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् । यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ॥
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः । अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ॥
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत । उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत् ॥
अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः । पाण्डवैः सहितो राजन्नेक एवासहायवान् ॥
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः । यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर ॥
अथ वा जायमानस्य यच्छीलमनुजायते । श्रूयते तन्महाराज नामृतस्यापसर्पति ॥
कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा । भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते ॥
← Previous (Ch. 305) Full Table of Contents Next (Ch. 307) →