Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 5

Araṇyakaparva (Vanaparva) Adhyāya 5

अरण्यकपर्व • अध्यायः 5

Araṇyakaparva (Vanaparva) Adhyāya 5 of the classical Mahābhārata with 21 verses.

Total: 21 Verses • Citations: MBh 3.5.1–21 • 250 Lexicon Terms
वनं प्रविष्टेष्वथ पाण्डवेषु; प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः । धर्मात्मानं विदुरमगाधबुद्धिं; सुखासीनो वाक्यमुवाच राजा ॥
प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ सूक्ष्मम् । समश्च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव ब्रवीहि ॥
एवं गते विदुर यदद्य कार्यं; पौराश्चेमे कथमस्मान्भजेरन् । ते चाप्यस्मान्नोद्धरेयुः समूला;न्न कामये तांश्च विनश्यमानान् ॥
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति । धर्मे राजन्वर्तमानः स्वशक्त्या; पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ॥
स वै धर्मो विप्रलुप्तः सभायां; पापात्मभिः सौबलेयप्रधानैः । आहूय कुन्तीसुतमक्षवत्यां; पराजैषीत्सत्यसंधं सुतस्ते ॥
एतस्य ते दुष्प्रणीतस्य राज;ञ्शेषस्याहं परिपश्याम्युपायम् । यथा पुत्रस्तव कौरव्य पापा;न्मुक्तो लोके प्रतितिष्ठेत साधु ॥
तद्वै सर्वं पाण्डुपुत्रा लभन्तां; यत्तद्राजन्नतिसृष्टं त्वयासीत् । एष धर्मः परमो यत्स्वकेन; राजा तुष्येन्न परस्वेषु गृध्येत् ॥
एतत्कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश्चावमानः । एवं शेषं यदि पुत्रेषु ते स्या;देतद्राजंस्त्वरमाणः कुरुष्व ॥
अथैतदेवं न करोषि राज;न्ध्रुवं कुरूणां भविता विनाशः । न हि क्रुद्धो भीमसेनोऽर्जुनो वा; शेषं कुर्याच्छात्रवाणामनीके ॥
येषां योद्धा सव्यसाची कृतास्त्रो; धनुर्येषां गाण्डिवं लोकसारम् । येषां भीमो बाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यमस्ति ॥
उक्तं पूर्वं जातमात्रे सुते ते; मया यत्ते हितमासीत्तदानीम् । पुत्रं त्यजेममहितं कुलस्ये;त्येतद्राजन्न च तत्त्वं चकर्थ । इदानीं ते हितमुक्तं न चेत्त्वं; कर्तासि राजन्परितप्तासि पश्चात् ॥
यद्येतदेवमनुमन्ता सुतस्ते; संप्रीयमाणः पाण्डवैरेकराज्यम् । तापो न ते वै भविता प्रीतियोगा;त्त्वं चेन्न गृह्णासि सुतं सहायैः । अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये ॥
अजातशत्रुर्हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन् । ततो राजन्पार्थिवाः सर्व एव; वैश्या इवास्मानुपतिष्ठन्तु सद्यः ॥
दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम् । दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च ॥
युधिष्ठिरं त्वं परिसान्त्वयस्व; राज्ये चैनं स्थापयस्वाभिपूज्य । त्वया पृष्टः किमहमन्यद्वदेय;मेतत्कृत्वा कृतकृत्योऽसि राजन् ॥
एतद्वाक्यं विदुर यत्ते सभाया;मिह प्रोक्तं पाण्डवान्प्राप्य मां च । हितं तेषामहितं मामकाना;मेतत्सर्वं मम नोपैति चेतः ॥
इदं त्विदानीं कुत एव निश्चितं; तेषामर्थे पाण्डवानां यदात्थ । तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेयम् ॥
असंशयं तेऽपि ममैव पुत्रा; दुर्योधनस्तु मम देहात्प्रसूतः । स्वं वै देहं परहेतोस्त्यजेति; को नु ब्रूयात्समतामन्ववेक्षन् ॥
स मा जिह्मं विदुर सर्वं ब्रवीषि; मानं च तेऽहमधिकं धारयामि । यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्यसती स्त्री जहाति ॥
एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य;दन्तर्वेश्म सहसोत्थाय राजन् । नेदमस्तीत्यथ विदुरो भाषमाणः; संप्राद्रवद्यत्र पार्था बभूवुः ॥
← Previous (Ch. 301) Full Table of Contents Next (Ch. 303) →