Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 44

Araṇyakaparva (Vanaparva) Adhyāya 44

अरण्यकपर्व • अध्यायः 44

Araṇyakaparva (Vanaparva) Adhyāya 44 of the classical Mahābhārata with 33 verses.

Total: 33 Verses • Citations: MBh 3.44.1–33 • 250 Lexicon Terms
स ददर्श पुरीं रम्यां सिद्धचारणसेविताम् । सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् ॥
तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम् । उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना ॥
नन्दनं च वनं दिव्यमप्सरोगणसेवितम् । ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः ॥
नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना । स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः ॥
नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैः । नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः ॥
नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचन । पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः ॥
स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम् । प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् ॥
तत्र देवविमानानि कामगानि सहस्रशः । संस्थितान्यभियातानि ददर्शायुतशस्तदा ॥
संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः । पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । हृष्टाः संपूजयामासुः पार्थमक्लिष्टकारिणम् ॥
आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः । प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् ॥
नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् । इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः ॥
तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपि । आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः ॥
राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः । तुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू ॥
तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनः । ततोऽपश्यद्देवराजं शतक्रतुमरिंदमम् ॥
ततः पार्थो महाबाहुरवतीर्य रथोत्तमात् । ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम् ॥
पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा । दिव्यगन्धाधिवासेन व्यजनेन विधूयता ॥
विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः । स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः ॥
ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बली । स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत ॥
ततः शक्रासने पुण्ये देवराजर्षिपूजिते । शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके ॥
मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा । अङ्कमारोपयामास प्रश्रयावनतं तदा ॥
सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा । अध्यक्रामदमेयात्मा द्वितीय इव वासवः ॥
ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम् । पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् ॥
परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ । ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ ॥
वज्रग्रहणचिह्नेन करेण बलसूदनः । मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः ॥
स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक् । हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा ॥
एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम् । सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ ॥
तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना । गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु ॥
घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा । उर्वशी मिश्रकेशी च डुण्डुर्गौरी वरूथिनी ॥
गोपाली सहजन्या च कुम्भयोनिः प्रजागरा । चित्रसेना चित्रलेखा सहा च मधुरस्वरा ॥
एताश्चान्याश्च ननृतुस्तत्र तत्र वराङ्गनाः । चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः ॥
महाकटितटश्रोण्यः कम्पमानैः पयोधरैः । कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहराः ॥
← Previous (Ch. 340) Full Table of Contents Next (Ch. 342) →