Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 42

Araṇyakaparva (Vanaparva) Adhyāya 42

अरण्यकपर्व • अध्यायः 42

Araṇyakaparva (Vanaparva) Adhyāya 42 of the classical Mahābhārata with 43 verses.

Total: 43 Verses • Citations: MBh 3.42.1–43 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
तस्य संपश्यतस्त्वेव पिनाकी वृषभध्वजः । जगामादर्शनं भानुर्लोकस्येवास्तमेयिवान् ॥
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा । मया साक्षान्महादेवो दृष्ट इत्येव भारत ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः । पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना ॥
कृतार्थं चावगच्छामि परमात्मानमात्मना । शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् ॥
ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः । यादोगणवृतः श्रीमानाजगाम जलेश्वरः ॥
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः । वरुणो यादसां भर्ता वशी तं देशमागमत् ॥
अथ जाम्बूनदवपुर्विमानेन महार्चिषा । कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः ॥
विद्योतयन्निवाकाशमद्भुतोपमदर्शनः । धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः ॥
तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान् । मूर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः ॥
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत् । वैवस्वतो धर्मराजो विमानेनावभासयन् ॥
त्रीँल्लोकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान् । द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते ॥
भानुमन्ति विचित्राणि शिखराणि महागिरेः । समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम् ॥
ततो मुहूर्ताद्भगवानैरावतशिरोगतः । आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । शुशुभे तारकाराजः सितमभ्रमिवास्थितः ॥
संस्तूयमानो गन्धर्वैरृषिभिश्च तपोधनैः । शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः ॥
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम् । यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः ॥
अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान् । दृष्टिं ते वितरामोऽद्य भवानर्हो हि दर्शनम् ॥
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः । नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः । त्वं वासवसमुद्भूतो महावीर्यपराक्रमः ॥
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् । दानवाश्च महावीर्या ये मनुष्यत्वमागताः । निवातकवचाश्चैव संसाध्याः कुरुनन्दन ॥
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः । कर्णः स सुमहावीर्यस्त्वया वध्यो धनंजय ॥
अंशाश्च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम् । तया निपातिता युद्धे स्वकर्मफलनिर्जिताम् । गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन ॥
अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन । त्वया साक्षान्महादेवस्तोषितो हि महामृधे । लघ्वी वसुमती चापि कर्तव्या विष्णुना सह ॥
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम् । अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि ॥
प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः । समन्त्रं सोपचारं च समोक्षं सनिवर्तनम् ॥
ततो जलधरश्यामो वरुणो यादसां पतिः । पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः ॥
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः । पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः ॥
मया समुद्यतान्पाशान्वारुणाननिवारणान् । प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान् ॥
एभिस्तदा मया वीर संग्रामे तारकामये । दैतेयानां सहस्राणि संयतानि महात्मनाम् ॥
तस्मादिमान्महासत्त्व मत्प्रसादात्समुत्थितान् । गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः ॥
← Previous (Ch. 338) Full Table of Contents Next (Ch. 340) →