Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 26

Araṇyakaparva (Vanaparva) Adhyāya 26

अरण्यकपर्व • अध्यायः 26

Araṇyakaparva (Vanaparva) Adhyāya 26 of the classical Mahābhārata with 19 verses.

Total: 19 Verses • Citations: MBh 3.26.1–19 • 250 Lexicon Terms
तत्काननं प्राप्य नरेन्द्रपुत्राः; सुखोचिता वासमुपेत्य कृच्छ्रम् । विजह्रुरिन्द्रप्रतिमाः शिवेषु; सरस्वतीशालवनेषु तेषु ॥
यतींश्च सर्वान्स मुनींश्च राजा; तस्मिन्वने मूलफलैरुदग्रैः । द्विजातिमुख्यानृषभः कुरूणां; संतर्पयामास महानुभावः ॥
इष्टीश्च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम् । पुरोहितः सर्वसमृद्धतेजा;श्चकार धौम्यः पितृवत्कुरूणाम् ॥
अपेत्य राष्ट्राद्वसतां तु तेषा;मृषिः पुराणोऽतिथिराजगाम । तमाश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः श्रीमतां पाण्डवानाम् ॥
स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च । संस्मृत्य रामं मनसा महात्मा; तपस्विमध्येऽस्मयतामितौजाः ॥
तं धर्मराजो विमना इवाब्रवी;त्सर्वे ह्रिया सन्ति तपस्विनोऽमी । भवानिदं किं स्मयतीव हृष्ट;स्तपस्विनां पश्यतां मामुदीक्ष्य ॥
न तात हृष्यामि न च स्मयामि; प्रहर्षजो मां भजते न दर्पः । तवापदं त्वद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं स्मरामि ॥
स चापि राजा सह लक्ष्मणेन; वने निवासं पितुरेव शासनात् । धन्वी चरन्पार्थ पुरा मयैव; दृष्टो गिरेरृष्यमूकस्य सानौ ॥
सहस्रनेत्रप्रतिमो महात्मा; मयस्य जेत नमुचेश्च हन्ता । पितुर्निदेशादनघः स्वधर्मं; वने वासं दाशरथिश्चकार ॥
स चापि शक्रस्य समप्रभावो; महानुभावः समरेष्वजेयः । विहाय भोगानचरद्वनेषु; नेशे बलस्येति चरेदधर्मम् ॥
नृपाश्च नाभागभगीरथादयो; महीमिमां सागरान्तां विजित्य । सत्येन तेऽप्यजयंस्तात लोका;न्नेशे बलस्येति चरेदधर्मम् ॥
अलर्कमाहुर्नरवर्य सन्तं; सत्यव्रतं काशिकरूषराजम् । विहाय राष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेदधर्मम् ॥
धात्रा विधिर्यो विहितः पुराण;स्तं पूजयन्तो नरवर्य सन्तः । सप्तर्षयः पार्थ दिवि प्रभान्ति; नेशे बलस्येति चरेदधर्मम् ॥
महाबलान्पर्वतकूटमात्रा;न्विषाणिनः पश्य गजान्नरेन्द्र । स्थितान्निदेशे नरवर्य धातु;र्नेशे बलस्येति चरेदधर्मम् ॥
सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद्विहितं विधात्रा । स्वयोनितस्तत्कुरुते प्रभावा;न्नेशे बलस्येति चरेदधर्मम् ॥
सत्येन धर्मेण यथार्हवृत्त्या; ह्रिया तथा सर्वभूतान्यतीत्य । यशश्च तेजश्च तवापि दीप्तं; विभावसोर्भास्करस्येव पार्थ ॥
यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वने वासमिमं निरुष्य । ततः श्रियं तेजसा स्वेन दीप्ता;मादास्यसे पार्थिव कौरवेभ्यः ॥
तमेवमुक्त्वा वचनं महर्षि;स्तपस्विमध्ये सहितं सुहृद्भिः । आमन्त्र्य धौम्यं सहितांश्च पार्थां;स्ततः प्रतस्थे दिशमुत्तरां सः ॥
← Previous (Ch. 322) Full Table of Contents Next (Ch. 324) →